SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ १५५ वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥१॥ [वीरः] 'ईरिक गति-कम्पनयोः' (१११५) ईर्, विपूर्व० । विशेषेण ईरयति = प्रेरयति अष्टप्रकारं कर्म इति वीरः । 'अच्' (५।१।४९) अच्प्र० → अ० । प्रथमा सि । ‘सो रुः' (२।१।७२) स० → र० । [विश्वेश्वरः] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे इत्येवंशील ईश्वरः । 'स्थेश-भास-पिस-कसो वरः' (५।२।८१) वरप० । विश्वस्य ईश्वरो = विश्वेश्वरः । प्रथमा सि । [देवः] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यति = स्तूयते सुरासुरैरिति देवः । 'अः' (उणा० २) अप्र० । ‘लघोरुपान्त्यस्य' (४।३।४) ए० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । त्रयाणामपि 'घोषवति' (१।३।२१) र० → उ० । [युष्माकम्] युष्मद् । षष्ठी आम् । अनेन वस् निषेधः, पश्चात् 'आम आकम्' (२।१।२०) आकम् । ‘शेषे लुक्' (२।१८) दलोपः । [कुलदेवता देव एव = देवता । 'भावे त्व-तल' (७।११५५) तलप्र० → त० । 'आत्' (२।४।१८) आप् । कुले = गोत्रे देवता = कुलदेवता । प्रथमा सि । दीर्घड्याव्०' (१।४।४५) सिलोपः । [स एव तद् । प्रथमा सि । 'आ ढेरः' (२।११४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।। 'तः सौ सः' (२।१।४२) त० → स० । 'तदः से स्वरे पादार्था' (१।३।४५) सिलोपः । एव । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [नाथः] 'नाङ उपतापैश्वर्याशी:षु च' (७१६) नाथ् । नाथते इति नाथः । 'अच्' (५।१।४९) अच्प्र० → अ० । प्रथमा सि । [भगवान भगो = ज्ञानं विद्यते यस्याऽसौ भगवान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप० । 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१।९४) म० → व० । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । दीर्घड्याव्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः । [अस्माकम्] अस्मद् । षष्ठी आम् । शेषं पूर्ववत् । [पापनाशनः] 'नशौच अदर्शने' (१२०२) नश् । नश्यन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । पापपूर्व० पापं नाशयतीति पापनाशनः । 'नन्द्यादिभ्योऽनः' (५।११५२) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । प्रथमा सि । 'सो रुः' (२।१।७२) र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । 'यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते' (न्यायसंग्रहः २१६५) प्रथमपुरुषे अस्तु-भवतु । कः कर्ता ? स एव देव, किं नाम ? वीरः, किं विशिष्टः ? विश्वेश्वरः, पुनः किं विशिष्ट: ? नाथः प्रभुः स्वामी, अतोपि किं विशिष्ट: ? भगवान ज्ञानवान् यः कुलदेवता, केषां ? युष्माकं, किमस्तु ? पापनाशनोऽस्तु पापस्फोटकोस्तु, केषां ? अस्माकम् । वीरु विश्वेश्वरु देवु भगवन्तु ज्ञानवन्तु नाथु सुप्रभु स्वामी तुम्हारु कुलदेवतासु अम्ह पापनाशनु पापस्फोटक हो । 卐 'नाम्युपान्त्य-प्री-कृ-ग-ज्ञः कः' (५1१1५४) कप० → अ० । Jain Education Intemational For Private & Personal use only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy