SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [प्रियतिस्त्रि] प्रियास्तिस्रो यस्याऽसौ प्रियतिसा, तस्मिन् । [प्रियचतसि निधेहि] प्रियाश्चतस्रो यस्याऽसौ प्रियचतसा, तस्मिन् । [प्रियतिसृणी] प्रियास्तिस्रो ययोस्ते । [प्रियचतसृणी] प्रियाश्चतस्रो ययोस्ते । [प्रियतिसृणि] प्रियास्तिस्रो येषु तानि । [प्रियचतसृणि] प्रियाश्चतस्रो येषु तानि । तिसृणाम्] त्रि | षष्ठी आम् । 'त्रि-चतुरस्तिसृ-चतसृ स्यादौ' (२।११) तिसृ आदेशः । 'ह्रस्वाऽऽपश्च' (१।४।३२) नाम् । ‘र-घुवर्णान्नो ण एकपदेऽनन्त्यस्या-ऽल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० → ण । [चतसृणाम् चतुर् । षष्ठी आम् । 'त्रि-चतुरस्तिसृ-चतसृ स्यादौ' (२१1१) चतसृ आदेशः । 'हूस्वाऽऽपश्च' (१।४।३२) नाम् । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० । [प्रियतिनि, प्रियतिसरि] प्रियास्तिस्रो यस्याऽसौ प्रियतिसा, तस्मिन् = प्रियतिसरि । [प्रियचतस्त्रि, प्रियचतसरि प्रियाश्चतस्रो यस्याऽसौ प्रियचतसा, तस्मिन = प्रियचतसरि । [प्रियतिस्रो, प्रियतिसरौ] प्रियास्तिस्रो ययोस्तौ = प्रियतिसरौ । [प्रियचतस्रौ, प्रियचतसरौ] प्रियाश्चतस्रो ययोस्तौ = प्रियचतसरौ । [प्रियतिस्रः, प्रियतिसरः] प्रियास्तिस्रो येषां ते = प्रियतिसरः । [प्रियचतस्रः, प्रियचतसरः] प्रियाश्चतस्रो येषां ते = प्रियचतसरः । [परमचतस्रः] परमाश्च ते चतस्रश्च = परमचतस्रः । [प्रियतिस्रौ, प्रियतिसरौ] प्रियास्तिस्रो ययोस्तौ । 'अझै च' (१।४।३९) अर्. | [प्रियचतस्रौ, प्रियचतसरौ] प्रियाश्चतस्रो ययोस्तौ । 'अझै च' (१।४।३९) अर्. । [प्रियतिस्रः, प्रियतिसुः आगतं स्वं वा] प्रियास्तिस्रो यस्याऽसौ प्रियतिसा, तस्मात् - तस्य वा । विकल्पे 'ऋतो दुर्' (१।४।३७) डुर्० → उ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।। [प्रियचतस्रः, प्रियचतसुः आगतं स्वं वा] प्रियाश्चतस्रो यस्याऽसौ प्रियचतसा, तस्मात्-तस्य वा । विकल्पे 'ऋतो डुर' .(१।४।३७) डु० → उ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [परमतिस्रः] परमाश्च ते तिस्रश्च = परमतिस्रः । [परमचतस्रः] परमाश्च ते चतस्रश्च परमचतस्रः । [प्रियतिसस्तिष्ठन्ति पश्य वा] प्रियास्तिस्रो येषां ते- तान् वा. । [प्रियचतस्रस्तिष्ठन्ति पश्य वा] प्रियाश्चतस्रो येषां ते-तान् वा ।। छ । जराया जरस् वा ॥२॥१३॥ [जराया जरस् वा जरा । षष्ठी डस् । 'आपो ङितां यै-यास-यास-याम्' (१।४।१७) डस्० → यास्० । 'सो रुः' (२।१।७२) र० । जरस् । प्रथमा सि । ‘दीर्घङ्याब' (१।४।४५) सिलोपः । 'अवर्ण-भो-भगो-ऽघोलुंगसन्धिः ' (१।३।२२) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy