SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पाद: ।। १३३ N ARAYANVAAAAAAAAAA [दण्डिनः] दण्डो विद्यते येषां ते । [दण्डिनम दण्डो विद्यते यस्याऽसौ दण्डी, तम् । [वृत्रहणौ] वृत्रं हतवन्तौ । 'कवगैकस्वरवति' (२।३।७६) न० → ण० । [वृत्रहणः] वृत्रं हतवन्तो = वृत्रहणः ।' 'कवगैकस्वरवति' (२।३७६) न० → ण । [वाग्ग्मिनौ] वाग् विद्यते ययोस्तौ । 'ग्मिन्' (७।२।२५) ग्मिन्प्र० । [वाग्मिनः] वाग विद्यते येषां ते । 'ग्मिन' (७।२।२५) ग्मिनप्र० ।। छ ।। __ अपः ।।१।४।८८॥ [अपः] अप् । षष्ठी डस् । [स्वापौ] शोभना आपो ययोस्तौ = स्वापौ । [स्वापः] शोभना आपो येषां ते । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः ।। छ ।। नि वा ।।१।४।८९।। [नि वा] न् । सप्तमी ङि । वा । प्रथमा सि । [स्वाम्पि, स्वम्पि] शोभना आपो येषु तानि = स्वाम्पि । अनेन । [अत्याम्पि, अत्यम्पि] आपमतिक्रान्तानि (यानि) तानि । [बहाम्पि, बहम्पि] बहवः(?) (बढ्यः ) आपो येषु तडागेषु तानि ।। छ ।। अभ्वादेरत्वसः सौ ।।१।४।१०।। [अभ्वादेरत्वसः] भू आदिर्यस्याऽसौ भ्वादि(:), न भ्वादि(:) = अभ्वादि(:) । 'नञत्' (३।२।१२५) न० → अ०, तस्य = अभ्वादे: । अतुश्च अस् च = अत्वस्, तस्य = अत्वसः, षष्ठी डस् । [सौ] सि । सप्तमी ङि । [भवान्] 'भांक दीप्तौ' (१०६१) भा । भातीति । 'भातेर्डवतुः' (उणा० ८८६) डिद् अवतुप्र० । 'डित्यन्त्यस्वरादे:' (२।१1११४) आलोपः । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'दीर्घड्याव०' (१।४।४५) सिलोपः ।। [कृतवान्] 'डुकंग करणे' (८८८) कृ । करोति स्म = कृतवान् । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० । प्रथमा सि । 'ऋदुदितः' (१।४७०) नोऽन्तः । अनेन दीर्घः । दीर्घड्याब०' (१।४।४५) सिलोपः । ‘पदस्य' (२191८९) तलोपः । [गोमान्] गावो विद्यन्ते यस्याऽसौ । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । अनेन दीर्घः । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'पदस्य' (२११४८९) तलोपः । [यवमान] यवा विद्यन्ते यस्याऽसौ । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । अनेन दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलोपः । ‘पदस्य' (२११८९) तलोपः । [अप्सराः] अद्भ्यः सरन्ति = अप्सराः । प्रथमा सि । अनेन दीर्घः । [स्थूलशिराः] स्थूलं शिरो यस्याऽसौ । [सुमनाः] सुष्टु मनो यस्याऽसौ । (१) स्यादिशब्दसमुच्चये - ‘र-वर्णान्नो ण०' (२।३।६३)। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy