SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाऽध्यायस्य चतुर्थः पादः ।। ११७ [चत्वारः] चतुर् । प्रथमा जस् । ‘वाः शेषे' (१।४।८२) वाऽऽदेशः । [प्रियकतयस्तिष्ठन्ति प्रियाः कति येषां ते । [प्रियषषः] प्रियाः षट् येषां ते । .. [प्रियपञ्चानः] प्रियाः पञ्च येषां ते । . . [प्रियपञ्ञः ] प्रियाः पञ्च येषां ते, तान् = प्रियपञ्चः । 'अनोऽस्य' (२191१०८) अलोपः । 'तवर्गस्य०' (१।३।६०) न० → ० । ञ् उपरि तन्नकारस्य 'म्नां धुड्वर्गे०' (१।३।३९) अनुस्वारः (?) (अनुनासिकः) |छ।। नपुंसकस्य शिः ।।१।४५५।। [नपुंसकस्य शिः] नपुंसक । षष्ठी डस् । 'टा-डसोरिन-स्यौ' (१।४।५) स्य । शि । प्रथमा सि । 'सो रुः' (२।१७२) र० । 'रः पदान्ते०' (१३५३) विसर्गः । [कुण्डानि तिष्ठन्ति कुण्ड । प्रथमा जस् । अनेन शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । [कुण्डानि पश्य] कुण्ड । द्वितीया शस् । शेषं पूर्ववत् । [पयांसि] पयस् । प्रथमा जस् । अनेन शि० → इ० । 'धुटां प्राक्' (१।४।६६) नोऽन्तः । 'स्महतोः' (१४८६) दीर्घः । 'शिड्-हेऽनुस्वारः' (१1३।४०) अनुस्वारः ।। [यशांसि] यशस् । प्रथमा जस् । शेषं ‘पयांसि' वत् । [कुण्डशो ददाति] कुण्ड । कुण्डं कुण्डं ददाति = कुण्डशो ददाति । बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस्' (७।२।१५०) पशस्प्र०(?) ('संख्यैकार्थाद् वीप्सायां शस्' (७।२।१५१) शस्प्र०) । [प्रियकुण्डाः] प्रियं कुण्डं येषां ते = प्रियकुण्डाः । [प्रियकुण्डान्] प्रियं कुण्डं येषां ते = प्रियकुण्डाः, तान् । [परमकुण्डानि] परमाणि च तानि कुण्डानि च = परमकुण्डानि ।।छ।। औरीः ॥१४॥५६॥ [औरी:] औ । प्रथमा सि । 'सो रुः' (२११७२) र० । ई । प्रथमा सि । [कुण्डे तिष्ठतः] कुण्ड । प्रथमा औ । अनेन ई । 'अवर्णस्ये०' (१।२।६) ए. । [कुण्डे पश्य] कुण्ड । द्वितीया औ । अनेन ई । 'अवर्णस्ये०' (१।२।६) ए. । [पयसी] पयस् । प्रथमा औ । अनेन ई. । [प्रियकुण्डौ पुरुषौ] प्रियं कुण्डं ययोस्तौ । [परमकुण्डे परमे च ते कुण्डे च = परमकुण्डे ।।छ।। अतः स्यमोऽम् ।।१।४५७।। [अतः स्यमोऽम्] अत् । षष्ठी डस् । सिश्च अम् च = स्यम्, तस्य = स्यमः, षष्ठी डस् । अम् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy