SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०० [सख्यौ] सखि । सप्तमी ङि । अनेन औ । 'इवर्णादे० ' (१।२।२१) य० । [पत्यौ] पति । सप्तमी ङि । अनेन औ । 'इवर्णादे० ' (१।२।२१) य० । [सख्यि] सखि । सखायमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । दीर्घश्च्वि यङ् यक्-क्येषु च' (४।३।१०८) दीर्घः । सखीयतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'अप्रयोगीत्' (१।१।३७ ) क्विप्लोपः । —य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलोपः । सप्तमी ङि । 'योऽनेकस्वरस्य' (२।१।५६ ) य० । 'सरिव्य' इत्यत्र 'स्थानीवाऽवर्णविधौ' (७।४।१०९) इति न्यायात् क्विपः स्थानित्वे सति 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) इति व (?) (य) लोपः कस्मान्न भवति ? 'असिद्धं बहिरङ्गमन्तरङ्गे' (न्यायसंग्रहः १।२० ) इति न्यायात् अन्तरङ्गे क्विवाश्रिते कार्ये यत्वमसिद्धं स्यात्- । [पत्यि] पति । पतिमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० य० । 'दीर्घश्च्वि यङ् यक्-क्येषु च' (४।३।१०८) दीर्घः । पतीयतीति क्विप् । शेषं 'सरिव्य' वत् । [प्रियसखी] प्रियः सखा यस्याऽसौ तस्मिन् प्रियसखौ, सप्तमी ङि । 'ङि' (१।४।२५) डौ० औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । = [नरपतौ] नराणां पतिः = नरपतिस्तस्मिन् ‘डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥ छ ॥ = नरपतौ, सप्तमी ङि । 'ङि' (१।४।२५) डौ० औ० । न ना डिदेत् ||१|४|२७| [न] न अव्यउ । प्रथमा सि । [ ना ङिदेत् ] ना ङ्-इत्-एत् । ङ् इत् अनुबन्धो यस्याऽसौ ङित्, ङिति एत् सि । ‘दीर्घङ्याब्०’ (१।४।४५) सिलोपः । 'धुटस्तृतीयः ' (२।१।७६) त० त० । Jain Education Intemational ङिदेत्, नाश्च ङिदेच्च नाङिदेत्, प्रथमा द० । 'विरामे वा' (१।३।५१) द० → [सख्या ] सखि । तृतीया टा । 'टः पुंसि ना' (१।४।२४ ) [ ना] प्राप्नोति परं न भवति । 'इवर्णादेरस्वे० ' (१।२।२१) यत्वम् । [पत्या] पति । तृतीया टा । 'टः पुंसि ना' (१।४।२४) [ना] प्राप्नोति परं न भवति । 'इवर्णादेरस्वे० ' (१।२।२१) यत्वम् । = [सख्ये] सखि । चतुर्थी ङे । 'डित्यदिति' (१।४।२३) [ ए ] प्राप्नोति परं न भवति । 'इवर्णादेरस्वे० ' (१।२।२१) यत्वम् । [पत्ये] पति । चतुर्थी ङे । 'ङित्यदिति' (१।४।२३) [ ए ] प्राप्नोति परं न भवति । 'इवर्णादेरस्वे० ' (१।२।२१) यत्वम् । [ सख्युः आगतं स्वं वा ] सखि । पञ्चमी इसि अथवा षष्ठी ङस् । ङित्यदिति' (१।४।२३) [ए] प्राप्नोति, परं न भवति । ‘इवर्णादेरस्वे०’ (१।२।२१) यत्वं । 'खि-ति-खी-तीय उर्' (१।४।३६) ङसि ङस्० → उर् । For Private & Personal Use Only [ पत्युः आगतं स्वं वा] पति । पञ्चमी ङसि अथवा षष्ठी ङस् । ङित्यदिति' (१।४।२३) [ए] प्राप्नोति परं न भवति । ‘इवर्णादेरस्वे०' (१।२।२१) यत्वं । 'खि-ति- खी-तीय उर्' (१।४।३६ ) ङसि ङस् ० उर् । [ सख्यौ ] सखि । सप्तमी ङि । ' ङित्यदिति' (१।४।२३) [ए] प्राप्नोति परं न भवति । 'केवलसखि पतेरौ ' (१।४।२६) www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy