SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ धर्माभ्युदयम् । अमात्यः – देव ! - अन्योऽपि कोsपि विफलो न भवति परितोष्य देवकीयमनः । श्रीवीरागमकथनात्तोषयिता किमुत यस्तस्य १ ॥ १० ॥ ( ततः प्रविशति प्रकृत्या सदाचारः पुरुषोत्तमो नाम प्रतीहारः । ) प्रतीहारः -- ( राजानं प्रति ) देव ! देवकीयोद्यानस्योद्यानपालकः प्रियंवदः कुतोऽपि निष्यन्दमान इवामन्दानन्दरसेन देवदर्शनमिच्छुः सिंहद्वारमधितिष्ठति । राजा - ( साक्षेपं) अकालक्षेपमेव प्रवेशय । प्रतीहारः - यदादिशति देवः । ( इति निष्क्रम्य प्रियंवदेन समं प्रविशति । ) प्रियंवदः - ( क ) जयदु जयदु देवो । ( इति राजानं प्रणम्य विज्ञपयति । ) देव ! पणयजणकल्लाणकंदुट्टविसट्टणुरगंतमिहराणुगारिणो सिरिखद्धमाणसामिणो समागमणमंगलेण वद्धाविज्जदु देवो । राजा - ( समाकर्ण्यानन्द रोमाञ्चमभिनीय ) प्रियंवदक ! त्रिभुवनजनसंस्तूयमानपदपङ्केरुहमहिमा निष्पतिमनैर्मल्य कैवल्यलक्ष्मीविलासरसप्रसृतः समवसृतः कस्मिन्नगण्यपुण्यसंभारसुभगम्भावुके भूभागे भगवान् ? । ( क ) जयतु जयतु देवः । देव ! प्रणतजनकल्याणनीलोत्पलदलनोद्गतमिहरानुकारिणः श्रीवर्धमानस्वामिनः समागमनमङ्गलेन वर्धाप्यतां देवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003288
Book TitleDharmabhyudayam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy