SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्रीमन्मेघप्रभाचार्यविरचितं प्रतीहारः-सकलमण्डलेश्वरपुरःसरपर शतसामन्ता राजाङ्गणमुपस्थिता महाराजपादावधारणं प्रतीक्षन्ते । (ततः प्रविशन्ति यथानिर्दिष्टाः पौरमण्डलेश्वरादयः।) राजा-(उभौ सुप्रसन्नकिञ्चिन्नयनावलोकनेनानुगृह्य पुरोऽवलोक्य च ) अये ! अस्मभ्यमुपस्थापितो हस्तिपकलोकेन मङ्गलाभ्युदयाभिधानः पट्टकरीन्द्रोऽपि। (इति सिंहासनादुत्थातुमिच्छन् ) देव ! पादावधारणं विधीयताम् । (इति सेवकजनप्रतिपत्तिवचांसि शृण्वन् चतुराभिधचातुर्धरिकनरकुञ्जरेण दत्तहस्तावलम्बः किञ्चित्परिक्रम्योपरिधृतसितातपवारणो महासिन्धुरकन्धराधिरोहणं नाटयति ।) (प्रस्तावमवाप्य सुमङ्गलः पठति ।) (क) लवणिमसुद्धमुद्धमयरद्धयपयडियपवरगुणगणं - नहयलगमणजाणजालंतरि पिक्खिवि ईसि तुह तणुं । देव दसनभद्द ! सुरतरुणिहं मणु तखणि वि मुच्छए तं नरनारिनियरु तुह दंसणि कि किवँ न जणु गच्छए। द्वितीयः(ख) सञ्चं लायन्नमयं तुह रूवं देव ! अन्नहा कह णु । सविसेसं तिसियमणो नयणेहि पियंतओ लोओ? ॥१४॥ (क) लवणिमशुद्धमुग्धमकरध्वजप्रकटितप्रवरगुणगणं नभस्तलगमनयानजालान्तरे प्रेक्ष्येषत्तव तनुम् । देव दशार्णभद्र ! सुरतरुणीनां मनस्तत्क्षण एव मूर्च्छते तन्नरनारीनिकरस्तव दर्शने कथं कथं न इव गच्छति ॥ (ख) सत्यं लावण्यमयं तव रूपं देव ! अन्यथा कथं नु । सविशेषं तृषितमना नयनैः पिबन् लोकः ? ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003288
Book TitleDharmabhyudayam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy