________________
६२
नवस्मरणादिसङ्ग्रहे
देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मां मा हिंसन्तु भूमिपाः ।। ७५ ।।
"
देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग सा मां पातु सदैव हि ॥ ७६ ॥ श्री गौतमस्य या मुद्रा, तस्या या भुवि लब्धयः । ताभिरभ्यधिकं ज्योतिः, अर्हन् सर्वनिधीश्वरः ॥ ७७ ॥
पातालवासिनो देवाः, देवाः भूपीठवासिनः । स्वर्वासिनोऽपि ये देवाः सर्वे रक्षन्तु मामितः ॥ ७८ ॥
"
येsaधिलब्धयो ये तु, परमावधिलब्धयः । ते सर्वे मुनयो दिव्याः, मां संरक्षन्तु सर्वदा ॥ ७९ ॥
भवनेन्द्र-व्यन्तरेन्द्र - ज्योतिष केन्द्र-कल्पेन्द्रेभ्यो नमो नमः । श्रुतावधि - देशावधि परमावधि - सर्वावधि-बुद्धिऋद्धिप्राप्त सर्वैषधर्द्धिप्राप्त - अनन्तावध्यर्द्धिप्राप्त-तपऋद्धिप्राप्त रसद्धिप्राप्त वैक्रियद्धिप्राप्त क्षेत्राद्विप्राप्त अक्षीणमहानसद्धिप्राप्तेभ्यो नमः ।
ॐ ह्रीः श्रीश्च धृतिर्लक्ष्मीः, गौरी चण्डी सरस्वती । जयाऽम्बा विजया क्लिन्नाऽजिता नित्या मदद्रवा ॥ ८० ॥
कामाङ्गा कामबाणा च, सानन्दानन्दमालिनी । माया मायाविनी रौद्री, कला काली कलिप्रिया ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org