________________
प्रहशान्तिस्तोत्रम् । ४३ हर्षदः कामदश्चेति, रिपुनः सर्वसौख्यदः । पातु वः परमानन्दलक्षणः संस्मृतो जिनः ॥ ३२॥ तत्त्वरूपमिदं स्तोत्रं, सर्वमङ्गलसिद्धिदम् । त्रिसन्ध्यं यः पठेन्निन्यं, नित्यं प्रामोति स श्रियम् ॥३३॥
श्रीग्रहशान्तिस्तोत्रम् । जगद्गरं नसस्कृत्य, श्रुत्वा सद्रुभाषितम् । ग्रहशान्ति प्रवक्ष्यामि, लोकानां सुखहेतवे ॥१॥ जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीयाविधिक्रमात् । पुष्पैविलेपनैधूपैनैवेद्यैस्तुष्टिहेतवे ॥२॥ पद्मप्रभस्य मार्तण्डश्चन्द्रश्चन्द्रप्रभस्य च । वासुपूज्यस्य भूपुत्रो, बुधोऽप्यष्टजिनेषु च ॥३॥ विमलानन्तधर्माराः, शान्तिः कुन्थुमिस्तथा। वर्धमानस्तथैतेषां, पादपद्मे बुधं न्यसेत् ॥ ४ ॥ ऋषभाजितसुपाश्चिाभिनन्दनशीतलौ । सुमतिः सम्भवस्वामी, श्रेयांसश्चैषु गीष्पतिः ॥५॥ सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्चरः। नेमिनाथे भवेद् राहु, केतुः श्रीमल्लिपार्श्वयोः ॥६॥ जनाँल्लग्ने च राशौ च, पीडयन्ति यदा ग्रहाः। तदा सम्पूजयेद्धीमान् , खेचरैः सहितान् जिनान् ॥७॥ नवकोष्ठकमालेख्यं, मण्डलं चतुरस्रकम् । ग्रहास्तत्र प्रतिष्ठाप्या, वक्ष्यमाणाः क्रमेण तु ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org