________________
श्री पार्श्वनाथमन्त्राधिराजस्तोत्रम् ।
दिव्यतेजोमयः शान्तः, परामृतमयोऽच्युतः । आद्योऽनाद्यः परेशानः, परमेष्ठी परः पुमान् ॥ ११ ॥ 'शुद्धस्फटिकसङ्काशः, स्वयम्भूः परमाच्युतः । व्योमाकारस्वरूपश्च लोकालोकावभासकः ॥ १२ ॥ ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः । मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः ॥ १३ ॥ सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः । भगवान् सर्वतत्त्वेशः, शिवश्रीसौख्यदायकः ॥ १४ ॥ इति श्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नाम, शतमत्र प्रकीर्तितम् ॥ १५ ॥ पवित्रं परमं ध्येयं, परमानन्ददायकम् । भुक्तिमुक्तिप्रदं नित्यं, पठेच मङ्गलप्रदम् ॥ १६ ॥ श्रीमत्परमकल्याणसिद्धिदः श्रेयसेऽस्तु वः । पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः ||१७|| घरणेन्द्रफणच्छत्रालङ्कृतो वः श्रियं प्रभुः । दद्यात् पद्मावतीदेव्यां, समधिष्ठितशासनः ॥ १८ ॥ ध्यायेत् कमलमध्यस्थं, श्रीपार्श्व जगदीश्वरम् । ॐ ह्रीँ श्रीं हः समायुक्तं, केवलज्ञानभास्करम् ॥ १९ ॥ पद्मावत्याऽन्वितं वामे, धरणेन्द्रेण दक्षिणे । परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् ॥ २० ॥ अष्टपत्रस्थितैः पञ्चनमस्कारैस्तथा त्रिभिः । ज्ञानाद्यैर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
४१
www.jainelibrary.org