SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०३५-३७] (सू० ३५) से किं तं आगमतो दव्वसुयं ? आगमतो दव्वसुयं जस्स णं सुए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव कम्हा ? जइ जाणते अणुवउत्ते ण भवइ । से तं आगमतो दव्वसुयं । (सू० ३६) से किं तं णोआगमतो दव्वसुयं ? णोआगमतो दव्वसुयं तिविहं पन्नत्तं । तंजहा- जाणयसरीरदव्वसुयं १ , भवियसरीरदव्वसुयं २, जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं ३। (सू० ३७) से किं तं जाणयसरीरदव्वसुतं ? जाणयसरीरदव्वावस्सयं* सुतत्तिपदत्थाहिकारजाणयस्स जं सरीरयं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलायलगयं वा, अहो ! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं सुए इ पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिटुंतो ? अयं मधुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणयसरीरदव्वसुतं । द्रव्यश्रुतं द्विविधं प्रज्ञप्तम्, तद्यथा-आगमतश्च नोआगमतश्च । तत्राऽऽद्यभेदनिर्णयार्थमाह-से किं तमित्यादि । अत्र निर्वचनम्-आगमओ दव्वसुतमित्यादि। यस्य कस्यचित् श्रुतमिति पदं श्रुतपदाभिधेयमाचारादिशास्त्रं शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचना-प्रच्छनादिभिर्वर्तमानोऽपि श्रुतोपयोगेऽवर्तमानत्वादागमत: आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थ: । शेषोऽत्राऽऽक्षेप-परिहारादिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवद् द्रष्टव्या, अत एव सूत्रेऽप्यतिदेशं कुर्वता जाव कम्हा ?, जइ जाणए इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धी सूत्रालापको गृहीत: । एतच्च काञ्चिदेव वाचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते । सेतमित्यादि निगमनम् । उक्तमागमतो द्रव्यश्रुतम्, इदानीं नोआगमतस्तदेवोच्यते- से किं तमित्यादि। अत्र निर्वचनम्नोआगमतो दव्वसुतं तिविहमित्यादि। अत्राऽऽद्यभेदज्ञापनार्थमाह- से किं तमित्यादि। अत्रोत्तरम्- जाणगसरीरदव्वसुतं सुयत्तीत्यादि। ज्ञातवानिति जस्तस्य शरीरं तदेवानुभूतभावत्वाद् द्रव्यश्रुतं ज्ञशरीरद्रव्यश्रुतम्, श्रुतमिति यत् पदं तदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं तज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः । ननु यदि जीवविप्रमुक्तमिदं कथं तद्यस्य द्रव्यश्रुतत्वम् ?, लेष्ट्वादीनामपि तत्प्रसङ्गात्, तत्पुद्गलानामपि कदाचित् श्रुतवेत्तृभिः गृहीत्वा मुक्तत्वसम्भवादित्याशयाऽऽह- सेजागयमित्यादि, शेषोऽत्रावयवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत् श्रुताभिलापतो वाच्य: यावत् सेतमित्यादिनिगमनम् । *. अत्र 'जाणयसरीरदव्वसुतं' इति स्वीकर्तव्यः पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy