SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० १६) से किं तं नोआगमतो दव्वावस्सयं ? नोआगमतो दव्वावस्सयं तिविहं पण्णत्तं। तंजहा- जाणगसरीरदव्वावस्सयं १ , भवियसरीरदव्वावस्सयं २, जाणगसरीरभवियसरीरवतिरित्तं दव्वावस्सयं ३ । (सू० १७) से किं तं जाणगसरीरदव्वावस्सयं ? जाणगसरीरदव्वावस्सयं- आवस्सए उक्तं सप्रपञ्चमागमतो द्रव्यावश्यकम्, इदानीं नोआगमतस्तदुच्यते - से किं तमित्यादि । अथ किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः । उत्तरमाह - नोआगमओ दव्वावस्सयं तिविहं पण्णत्तमित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेधे देशनिषेधे २०वा वर्त्तते । यत उक्तं पूर्वमुनिभि: - आगमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे । सव्वे जह णसरीरं भव्वस्स य आगमाभावा ।।१।। ( ) व्याख्या- आगमस्य आवश्यकादिज्ञानस्य सर्वनिषेधे वर्त्तते नोशब्द:, अथवा तस्यैव देशप्रतिषेधे वर्तते, तत्र सव्वे त्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने, णसरीरं ति ज्ञस्य जानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकम् , भव्यस्य च योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकम् । कुत इत्याह- आगमस्य आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावात् । इदमुक्तं भवतिज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नो-आगमत: सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थः । देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा - किरियागमुच्चरंतो आवासं कुणइ भावसुन्नो उ। किरियाऽऽगमो न होई तस्स निसेहो भवे देसे ॥१।। ( ) व्याख्या- क्रियाम् आवर्तादिकां कुर्वन्' इत्यध्याहारः, आगमं च वन्दनकसूत्रादिकमुच्चारयन् भावशून्यो य आवश्यकं करोति सोऽपि नोआगमत:, इह द्रव्यावश्यकमिति शेषः । अत्र च क्रिया आवर्तादिकाऽऽगमो न भवति, जडत्वात्, आगमस्य च ज्ञानरूपत्वात्, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति, क्रिया आगमो न भवतीत्यर्थ: । अतो नोआगमत इति इह किमुक्तं भवति? देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः । तदेवं नोआगमत आगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा- ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् । तत्राऽऽद्यभेदं विवरीषुराह- से किं तमित्यादि । अथ किं तत् ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह - जाणगसरीरदव्वावस्सयं आवस्सए त्तीत्यादि, ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत २०. अन्यत्र नोशब्दस्य देशवाचित्वं मिश्रवाचित्वं चोक्तमिति ध्येयम्। तच्च कथमिति तदर्थं विलोकनीया निक्षेपविंशिका । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy