SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारसूत्रम् [सू०१० (सू० १०) से किं तं नामावस्सयं ? २(=नामावस्सयं) जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सये त्ति नाम कीरए। सेतं नामावस्सयं। नामावश्यकस्वरूपनिरूपणार्थं सूत्रकार एवाह- से किं तं नामावस्सयमित्यादि । अथ किं तन्नामावश्यकम् इति प्रश्ने सत्याह- नामावस्सयं जस्स णमित्यादि, अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयं ति पदं द्रष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूह्यम्, णमिति वाक्यालङ्कारे, यस्य वस्तुनो जीवस्य वा अजीवस्य वा जीवानां वाऽजीवानां वा तदुभयस्य वा तदुभयानां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यकं चेति व्युत्पत्तेः, अथवा यस्य जीवाऽजीवादिवस्तुन: आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यकम्, नाम्ना नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दा: पक्षान्तरसूचका इति समुदायार्थः । तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते- यथा लोके जीवस्य स्वपुत्रादेः कश्चित् सीहको देवदत्त इत्यादि नाम करोति तथा कश्चित् स्वाभिप्रायवशादावश्यकमित्यपि नाम करोति । अजीवस्य कथमिति चेत्, उच्यते- इहावश्यकाऽऽवासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्ध्वशुष्कोऽचित्तो बहुकोटराकीर्णो वृक्षोऽन्यो वा तथाविध: कश्चित् पदार्थविशेष: सर्पादेरावासोऽयमिति लौकिकैर्व्यपदिश्यत एव, स च वृक्षादिर्यद्यप्यनन्तै: परमाणुलक्षणैरजीवद्रव्यैर्निष्पन्नस्तथाऽप्येकस्कन्धपरिणतिमाश्रित्य एकाजीवत्वेन विवक्षित इति स्वार्थिककप्रत्ययोपादानादेकाजीवस्यावासकनाम सिद्धम्, जीवानामपि बहूनामावासकनाम दृश्यते, यथा इष्टकापाकाद्यग्निर्मूषकावास इत्युच्यते, तत्र ह्यग्नौ किल मूषिका: संमूर्च्छन्ति, अतस्तेषामसंख्येयानामग्निजीवानां पूर्ववदावानामर्थानां मध्ये चन्द्रप्रभाख्यस्याष्टमतीर्थकृतो भावनिक्षेपत्वमेव, चन्द्रस्य प्रभेव प्रभा यस्य स चन्द्रप्रभ इति व्युत्पत्तिलभ्यस्यार्थस्य तत्र विद्यमानत्वात्, अन्यथा चन्द्रस्यापि मृगांकपदाभिधेयत्वेन हरिणाङ्कपदानभिधेयत्वापत्तेः, इष्टापत्तिरिति चेन्न, शिष्टैः हरिणाङ्कपदस्यापि प्रयुज्यमानत्वात् । तथा च मृगोऽके यस्य स इति व्युत्पत्तिलभ्यस्यार्थस्य विद्यमानत्वाच्चन्द्रस्य यथा मृगाकपदवाच्यानामर्थानां मध्ये भावनिक्षेपत्वं हरिणाङ्कादिपदाभिधेयत्वञ्च, तथैवात्रापि मन्तव्यम्। ननु लक्ष्मीपत्याख्यस्य मनुजादेः श्रीपत्यादिपदाभिधेयत्वं स्यान्न वेति चेत् ? तस्य मनुजादेर्वस्तुतः श्रीमत्त्वे लक्ष्म्याः पतिरिति व्युत्पत्तिलभ्यस्यार्थस्य सत्त्वाद् भावनिक्षेपत्वेन श्रीपत्यादिपदाभिधेयत्वं निर्बाधम् । तस्य निर्धनत्वे तु तदर्थस्यासत्त्वाद् नामनिक्षेपत्वेन श्रीपत्यादिपदानभिधेयत्वं मन्तव्यमेव स्यादिति । तथापि यदि लक्ष्मीपत्याख्यस्य निर्धनस्यापि श्रीभ दिपदाभिधेयत्वं शिष्टानामिष्टं स्यात् तर्हि भूत-भाविधनवत्त्वं वर्तमान उपचर्य, संभावनासत्त्वं वाऽन्यद्वा किञ्चित् पुरस्कृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy