SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे द्वादश व्रतानि अधश्चातिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इत्येते स्थापयितव्याः । संदृष्टिरप्येषामेषा भवति । उच्चारणा विनिश्चीयतेस्थूल कृतप्राणातिपातस्यातिक्रमो व्यतिक्रमोऽतिचारोऽनाचारोऽभोग इति प्रथमाणुव्रतस्य पंचोच्चारणा । एवं शेषैकादशवतेष्वपि पंच पंचोच्चारणा भवन्ति, सर्वव्रतानां सर्वोच्चारणाः संकलिताः षष्ठिर्भवन्ति । मूलोच्चारणाभिः पंचभिः सह पंचषष्ठिरुच्चारणा इति ॥ १४६ ॥ रेतोमूत्रपुरीषाणि मद्यमांसमधूनि च । - अभक्ष्यं भक्षयेत् षष्ठं दर्पतश्चेविषट्क्षमाः ॥ १४७ ॥ रेतोमूत्रपुरीषाणि-रेतः क्षरण, मूत्रं प्रस्रवणं, पुरीषमुच्चारः । मद्यमांसमधूनि च-मद्यं सुरा, मांसं पिशितं, मधु माक्षिकार्दितानि च । अभक्ष्यं--- अभोज्यं रुधिरास्थिचर्मप्रमुखं च यदि । भक्षयेत्-अभ्यवहरति प्रमादेन तदानीं तस्य जघन्योपासकस्य षष्ठं प्रायश्चित्तं भवति । दर्पतश्चेत्-चेद्यदि, दर्पतोऽहंकारात् पूर्वोक्तमझनाति तदानीं द्विषट्क्षमा:-उपवासा द्विषट् द्वादश भवन्ति प्रायश्चित्तम् ॥ १४७॥ पंचोदुम्बरसेवायां प्रमादेन विशोषणं । चाण्डालकारुकाणां षडन्नपाननिषेवणे ॥१४८॥ पंचोदुम्बरसेवायां-पंचोदुम्बराणि वटाश्वत्थोदुम्बरकठूमरविशेषफलानि तेषां दर्पतोऽभ्यवहरणे कृते द्वादशोपवासाः। प्रमादेन च, विशोषणंउपवासः प्रायश्चित्तं । चाण्डालकारुकाणां षडन्नपाननिषेवणे-चांडाला. दीनां कारुकाणां कारूणां वरुटरजकादीनां च अन्नपानयोर्निषेवणेऽनुभवने कृते सति षट् षड्डिशोषणानि भवन्ति ॥ १४८॥ सद्योल्लंघि (बि) तगोधातवन्दीगृहसमाहतान् । ? कृमिदृष्टं च संस्पृश्य क्षमणानि षडश्नुते ॥ १४९॥ १ सदृष्टि इति भूलः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy