SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त चूलिका । कुलीन क्षुल्लकेष्वेव - कुलीनेषु कुलपुत्रेषु ब्राह्मणक्षत्रियवैश्यविशुद्धोभयकुलसमुत्पन्नेषु व्यङ्गादिकारणसंश्रयात् क्षुल्लक व्रताधिष्ठितेषु सत्सु । सदा-सर्वकालं । देयं दातव्यं । महाव्रतं --निर्ग्रन्थलिंगं । सल्लेखनोपरूढेषु -- संस्तरमाश्रितेषु नान्येषु क्षुल्लकेषु । गणेन्द्रेण - गणचारिणा । गुणेच्छुना - गुणाभिलाषिणा ॥ ११३ ॥ ऋषि-प्रायश्चित्तम् । समाचारसमुद्दिष्टविशेषभ्रंशने पुनः । स्थैर्यास्थैर्यप्रमादेषु दर्पतः सकृन्मुहुः ॥ ११५ ॥ साधूनां यद्वदुद्दिष्टमेवमार्यागणस्य च । दिनस्थानत्रिकालोनं प्रायश्चित्तं समुच्यते ॥ १९४ ॥ साधूनां - ऋषीणां । यद्वत् यथैव । उद्दिष्टं - प्रतिपादितं । एवमार्यागणस्य च - आर्यागणस्यापि संयतिकासमूहस्य च एवमेव प्रायश्चित्तं भवति । अयं तु विशेषः, दिनस्थानत्रिकालोनं - दिनस्थानं दिवसप्रतिमायोगः, त्रिकालः त्रिकालयोगः, ताभ्यामूनं हीनं रहितं । प्रायश्चित्तंविशुद्धिः । समुच्यते - अभिधीयते ॥ ११४ ॥ १४७ ******** समाचारसमुद्दिष्ट विशेषभ्रंशने पुनः - समाचारे ये केचन कार्याकार्यमन्तरेण परगृहगमनरोधनस्नपनपचनषडिधारंभप्रभृतयो विशेषास्तेषां भ्रंशे स्खलने तु सति । स्थैर्यास्थैर्यप्रमादेषु - स्थैर्ये स्थिरत्वे, अस्थैर्ये अस्थिरत्वे, प्रमादे कथंचिद्दोषसम्पन्ने । दर्पतः - अहंकाराच्च । सकृत् - एकवारं । मुहु:पुनः पुनः । एतेषु यथासंख्यं प्रायश्चित्तानि वश्यन्ते ॥ ११५ ॥ Jain Education International कायोत्सर्गः क्षमा क्षान्तिः पंचकं पंचकं क्रमात् । ष षष्ठं ततो मूलं देयं दक्षगणेशिना ॥ ११६ ॥ कायोत्सर्ग : --- तनुत्सर्गः । क्षमा – उपवासः । क्षान्तिः - क्षमणं । पंचकं - कल्याणं । पुनः, पंचकं । क्रमात् - - क्रमेण । षष्ठं - - षष्ठं प्रायश्चित्तं । पुनरपि षष्ठमेव । ततो मूलं - तदनन्तरं मूलं पंचकल्याणं । देयं - दातव्यं । दक्षगणेशिना -- निपुणगणेन्द्रेण ॥ ११६ ॥ १ सप्ताक्षराण्येव पुस्तके | For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy