SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४० प्रायश्चित्तसंग्रहे तैः कृत्वा । आदिशब्देन आप्रस्ता (पृच्छा) लोचनाव्याख्यानवात्सल्यसंभाषणादिभिरपि । अन्योन्यागमनाद्यैश्व - परस्परसंकाशं गमनागमन विन-याभ्युत्थानप्रभृतिभिश्व प्रकारैः । प्रवर्तन्ते —— चेष्टन्ते । स्वशक्तितः-आत्मशक्त्या सर्वसामर्थ्यात् ॥ ९० ॥ - विधिमेवमतिक्रम्य प्रमादाद्यः प्रवर्तते । तस्मात् क्षेत्रादसौ वर्षमपनेयः प्रदुष्टधीः ॥ ९१ ॥ - विधि-विधानक्रमं । एवं - एवंविधं । अतिक्रम्य - उल्लंघ्य । प्रमादात्- शैथिल्यात् । यो - यतिः । प्रवर्तते - चेष्टते । तस्मात् क्षेत्रादसौ - असौ स साधुः, तस्मात्ततः, क्षेत्राद्विषयात्सकाशात् । वर्षे - संवत्सरमात्रं कालं । • अपनेयः - निर्घाटयितव्यः । प्रदुष्टधीः -- दुष्टमतिः ॥ ९१ ॥ शिलोदरादिके सूत्रमधीते प्रविलिख्य यः । चतुर्थालोचने तस्य प्रत्येकं दण्डनं मतम् ॥ ९२ ॥ --- - शिलोदरादिके — शिलायां दृषदि पाषाणे, उदरे ऊरौ, आदिशब्देन भूमिबाहु जंघाप्रभृतावपि । सूत्रं -- आगमनिबन्धं । अधीते —— यतिः । प्रविलिख्य यः । चतुर्थालोचने- चतुर्थमुपवासः, आलोचना दोषप्रकाशना एते द्वे । तस्य - पुर्वोक्तस्य । प्रत्येकं - यथासंख्यं । दण्डनं - प्रायश्चित्तं । मतं - अभ्युपगतं । शिलातल भूप्रदेशादिषु उपवासः । उदरोरु जंघावाव्हादिषु आलोचना ॥ ९२ ॥ जातिवर्णकुलोनेषु भुंक्तेऽजानन प्रमादतः । सोपस्थानं चतुर्थं स्यान्मासोऽनाभोगतो मुहुः ॥ ९३ ॥ जातिवर्ण कुलोनेषु - जातिर्मातृपक्षः, वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः, कुलं वंशः पितृपक्षः, तैरूनेषु च्युतेषु विषयभूतेषु । कुलजातिविकला १ प्रभृतावऽपसूत्र इति पाठः पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy