SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका। पानीये गतस्य उपवासः । ततः परं चतुरंगुले चतुरङ्गले जले सति द्विगुणा द्विगुणा उपवासा भवन्ति ॥ ३९ ॥ दण्डैः षोडशभिर्मेये भवन्त्येते जलेऽअसा। __ कायोत्सर्गोपवासास्तु जन्तुकीर्णे ततोऽधिकाः ॥ ४० ॥ दण्डैः-चतुर्हस्तप्रमाणैः । षोडशभिर्मेये-षोडशभिर्दण्डै#ये परिच्छेदाः । भवन्ति-सन्ति । एते-इमे प्रागुक्ताः । जले-पानीये। अंजसा-परमार्थेन स्फुटं । कायोत्सर्गोपवासाः-कायोत्सर्गा उपवासाश्च सन्ति । जन्तुकीर्णे-तु, जन्तुकीर्ण पुनः प्राणिगणसंभूते सति । ततः-तेभ्यः कायोत्सर्गोपवासेभ्यः । अधिका:--प्रवृद्धाः । षोडशदण्डप्रमाणे पानीये मध्येन गतस्य साधोः पूर्वोक्ताः कायोत्सर्गोपवासा भवन्ति न न्यूने । सजुन्तुके तु ततोऽभ्यधिकाश्च पूर्वोद्दिष्टप्रायश्चित्तप्रमाणकायोत्सर्गोपवासेभ्यः सकाशात् सातिरेकाः सातिरेकाः कायोत्सर्गोपवासा भवन्तीत्यर्थः ॥ ४० ॥ स्वपरार्थप्रयुक्तैश्च नावाद्येस्तरणे सति। स्वल्पं वा बहु वा दद्याज्ज्ञातकालादिको गणी ॥ ११ ॥ स्वपरार्थप्रयुक्तैश्च-स्वार्थमात्मनि निमित्तं, परार्थमन्यजनहेतोः, प्रयुक्तैः प्रेरितैः प्रयोजितैः । नावाद्यैः-द्रोणीप्रभृतिभिः कृत्वा । तरणे-जले उत्तरणे । सति-विद्यमाने । स्वल्पं-स्तोकं कायोत्सर्ग । बहु वा-अथवा भर्यपि । दद्यात्-प्रयच्छेत् । ज्ञातकालादिकः-अवमितकालादिकः कालमवबुद्ध्य प्रायश्चित्तं वितरति । गणी --आचार्यः ॥ ४१ ॥ दक्षेण गणिना देयं जलयाने विशोधनम् । साधूनामपि चार्याणां जलकेलिमहासृणिः ॥४२॥ दक्षेण-कुशलेन । गणिना-आचार्येण । देयं-दातव्यं । जलयाने पानीयगमने । विशोधनं-प्रायश्चित्तं। साधूनां--यतीनां । अपि चार्याणां १ अस्य स्थाने केलि इति पाठः पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy