SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे Narror.mrrrrrrrrrrrrrrrrrrr....mare तरुण्या-स्त्रिया सह । तरुणो-युवा यतिः । कुर्यात्-करोति । कथालापं-कथा वाक्यप्रबंध, आलापं सामान्यवचनं । सकृत्-एकवारं । यदि-चेत् कथंचित् । उपवासोऽस्य दातव्यः-उपवासः प्रायश्चित्तं, अस्य एतस्य स्त्रीकथालापकारिणः, दातव्यो देयः । असकृत् - अनेकवारं । यदि स्त्रीभिः सह कथालापं करोति तदा स एवोपवासः । षण्मासपश्चिमः--षण्मा. सावधिर्भवति ॥ २६ ॥ .. स्त्रीजनेन कथालापं गुरूनुल्लंध्य कुर्वतः । स्यादेकादि प्रदातव्यं षष्ठं षण्मासपश्चिमं ॥ २७ ॥ स्त्रीजनन कथालापं-स्त्रीजनेन योषिन्निवहेन सह, कथालापं रहस्यादि समुल्लापं । गुरूनुलंध्य-आचार्योपाध्यायादिभिर्विनिवारितस्यापि । कुर्वतो-विदधानस्य । स्यात्---भवेत् । एकादि प्रदातव्यं षष्ठं-एकषष्ठादि प्रायश्चित्तं प्रदातव्यं । षण्मासपश्चिमं-षण्मासावधि ॥ २७ ॥ स्त्रीजनेन कथालापं गुरूनुलंध्य कुर्वतः । त्याग एवास्य कर्तव्यो जिनशासनदूषिणः ॥ २८॥ . स्त्रीजनेन-महिलासमूहेन । कथालापं-गुह्यकथासमुल्लापं । गुरूनआचार्यादीन् । उल्लंघ्य-अतिक्रम्य । कुर्वतो-विदधतः । त्याग एवास्य कर्तव्यः-अस्य निरंकुशस्य त्याग एव उद्वासनमेव कर्तव्यो विधेयः । जिनशासनदूषिणः सर्वज्ञाज्ञाकलङ्ककारिणः ॥ २८॥ स्थातुकामः स चेद्भूयस्तिष्ठेत्क्रमणमौनतः । आषण्मासमयः कालो गुरूद्दिष्टावधिर्भवेत् ॥ २९ ॥ स्थातुकामः--स्थातुमनाः । सः---पूर्वोक्तः । चेत् (१)। समयः (!)। गुरूद्दिष्टावधिः--आचार्योपदिष्टमर्यादः । भवेत्--स्यात् । यावन्तं कालं आचार्योऽभीच्छति तावान् कालो भवति ॥ २९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy