SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्त-चूलिका | १०७ 1 चतुरिन्द्रिये चत्वारः, पंचेन्द्रिये पंच | अस्थिरस्य प्राणगणनया कायोत्सर्गाः सन्ति - एकेन्द्रियस्य बधे चत्वारः कायोत्सर्गाः, द्वीन्द्रिये षट् त्रीन्द्रिये सप्त, चतुरिन्द्रियेऽष्टौ असंज्ञिपंचेन्द्रिये नव, संज्ञिपंचेन्द्रिये दश कायोत्सर्गाः भवन्ति । अप्रयत्नव्रतस्थिरस्येन्द्रियगणनया कायोत्सर्गाः उपवासाः । अस्थिरस्य प्राणगणनया कायोत्सर्गा उपवासा भवन्ति । मूलगुणधारिणः प्रयत्नचारिणः स्थिरस्येन्द्रियगणनया कायोत्सर्गाः, अस्थिरस्य प्राणगणनया भवन्ति । अप्रयत्नचेष्टस्य स्थिरस्येन्द्रियगणनया कायोत्सर्गाः उपवासाः । अस्थिरस्य प्राणगणनयोपवासा भवन्ति ॥ ४ ॥ अथवा यत्न्ययत्नेषु हृषीकप्राणसंख्यया । कायोत्सर्गा भवन्तीह क्षमणं द्वादशादिभिः ॥ ५ ॥ अथवा - अन्यमतेन । यत्न्ययत्नेषु — यत्निष्वप्रयत्नवत्सु [ प्रयत्नेषु ] पुरुषु प्रत्येकं । हृषीकप्राणसंख्यया --- इन्द्रियप्राणगणनया प्रायश्चित्तं, ( प्रयत्नपरेषु इन्द्रियगणनया ) अप्रयत्नपरेषु प्राणगणनया कायोत्सर्गा:भवन्ति — सन्ति । इह - अस्मिन् शास्त्रे | क्षमणं - उपवासस्तु । द्वादशादिभिः - द्वादशप्रभृतिभिरे केन्द्रियादिभिर्भवति । द्वादशभिरे केन्द्रियैरेक उपवासः । षड्भिः द्वीन्द्रियैरुपवासः । चतुर्भिस्त्रीन्द्रियैरुपवासः । त्रिभिश्चतुरिन्द्रियैरुपवास इति ॥ ५ ॥ पत्रिंशमिश्रभावार्कग्रहैकेषु प्रतिक्रमः । एकद्वित्रिचतुःपंचहृषीकेषु स षष्ठयुक् ॥ ६ ॥ षट्त्रिंशन्मिश्रभावार्कय हैकेषु — मिश्रभावा अष्टादश ज्ञानदर्शनादयः, अर्का : द्वादश, ग्रहा नव तेषु षटूत्रिंश [ स ] दादिषु । प्रतिक्रमः -प्रतिक्रमणं उपस्थानं । एकद्वित्रिचतुः पंचहृषीकेषु – एकेन्द्रियादिषु, एकस्मिन पंचेन्द्रिये प्रत्येकं सः । षट्त्रिंशत्सु एकेन्द्रियेषु अष्टादशसु द्वीन्द्रियेषु द्वादशसुत्रीन्द्रियेषु नवसु चतुरिन्द्रियेषु एकस्मिन् पंचेद्रिये प्रत्येकं । सः -पूर्वोपदिष्टः प्रतिक्रमः प्रायश्चित्तं भवति । षष्ठयक्षष्ठेन द्वाभ्यां निरन्तराभ्यां उपवासाभ्यां युतः समन्वितः । उक्तं चान्यैः Jain Education International For Private & Personal Use Only www www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy