SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्री गुरुदास - विरचिता प्रायश्चित्त चूलिका | -००/० श्रीनन्दिगुरुकृत- विवरणसहिता । 悠 प्रणम्य परमात्मानं केवलं केवलेक्षणम् । मयातिधास्यते किंचिच्चूलिकाविनिबन्धनम् ॥ १ ॥ अथ तत्र तावदिष्टदेवतानमस्कारो निर्विघ्नार्थः शिष्टव्यवहारपरिपालनार्थश्व स्तुयते; योगिभिर्योगगम्याय केवलायाविनाशिने । ज्ञानदर्शनरूपाय नमोस्तु परमात्मने ॥ १ ॥ इति । Jain Education International , 1 नमोऽस्तु - नमस्कारोऽस्तु नमस्कारो भवतु । कस्मै ! परमात्मने - आत्मा जीव उपयोगलक्षणः, परमः प्रधानः संसारासारापारसागरसमुत्तीर्ण इत्यर्थः, स चासौ आत्मा च परमात्मने नमः । किंविशिष्टाय ? योगगम्याययोगः समाधिः शुभाशुभभावाभावस्वभावः सम्यग्ज्ञानमित्यर्थः तेन गम्य इति योगगम्यो योगविषय इत्यर्थः । कैः १ योगिभिः -- ध्यानिभिः । पुनरपि कथंभूताय ? केवलाय शुद्धाय निष्कलायेति यावत् । अविनाशिने - अव्ययाय | पुनरपि कथंभूताय ? ज्ञानदर्शनरूपाय - ज्ञानं केवलज्ञानं, दर्शनं केवलदर्शनं, ज्ञानदर्शनमेव रूपं स्वरूपं यस्य स ज्ञानदर्शनरूपः, तदविनामावादनन्तवीर्यानन्त सौख्यादीनां तदन्तर्भावः । एवंविधमतीतानागतवर्तमानकालगोचरं सामान्यापेक्षयैकं सिद्धपरमेष्ठिनं प्रणम्य पूर्व, तदनन्तरं प्रायश्चित्तचूलिका विधियते ॥ १ ॥ मूलोत्तरगुणेष्वीष द्विशेषव्यवहारतः । साधूपासक संशुद्धिं वक्ष्ये संक्षिप्य तद्यथा ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy