SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । ८१ संयतानां मुनीनां दिगम्बराणां प्रतिमा आकार:, जंगमा प्रतिमा मुनयो भवन्तीत्यर्थः । दंसणअनंतणाणं अनंतवीरिय अनंतसुक्खा य । सासयसुक्ख अदेहा मुक्का कम्मबंधेहिं ॥ १२ ॥ दर्शनानन्तज्ञानं अनन्तवीर्या अनन्तसुखाः च । शाश्वतसुखा अदेहा मुक्ताः कर्माष्टबन्धैः ॥ दंसणअणतणाणं दर्शनमनन्तं केवलदर्शनं सत्तावलोकनमात्रलक्षणं । काकाक्षिगीलकन्यायेनानन्तशब्द उभयत्राभिसम्बध्यते तेनानन्तज्ञानं वस्तुयथावत्स्वरूपग्राहकं केवलज्ञानं लोकालोकव्यापकं द्वयं । तद्योगाद्दर्शनानन्तज्ञानं अनन्तदर्शनमनन्तज्ञानं च सिद्धा भवन्ति । उक्तं चाशाधरेण महाकविना— सत्तालोचनमात्रमित्यपि निराकारं मतं दर्शनं साकारं च विशेषगोचरमिति ज्ञानं प्रवादीच्छया । ते नेत्रे क्रमवर्तिनी सरजसां प्रादेशिके सर्वतः स्फूर्जन्ती युगपत्पुनर्विरजसां युष्माकमङ्गातिगाः ॥ १ ॥ तथा च नेमिचंद्र सिद्धान्तचक्रवर्तिना चोक्तं दंसणबुवं जाणं छदुमत्थाणं ण दोणि उवओगा । जुगवं जम्हा केवलिणाहे जुगवं तु ते दो वि ॥ १ ॥ अनंतवीरिय अनंतसुक्खा य अनन्तवीर्याश्च सिद्धा भवन्ति लोकालोकस्वरूपावलोकने ज्ञातृत्वे च या शक्तिस्तदनन्तवीर्य ज्ञातव्यं । अनन्तसौख्याश्च सिद्धा भवन्ति सर्ववस्तुस्वरूपपरिज्ञाने सति तेषां सुखमुत्पद्यते । तथा चोक्तं नेमिचंद्रेण त्रिलोकसारग्रन्थे वैमानिकाधिकारपर्यन्ते- षद. ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy