SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७४ षट्प्राभूतेनरसनघ्राणचक्षुःश्रोत्रलक्षणेषु हृषीकेषु भवा एन्द्रियाः ते च ते विषयाः स्पर्शरसगन्धरूपशब्दलक्षणा यथासंभवं शक्तिरूपा व्यक्तिरूपाश्च भवन्ति। आयदणं जिणमग्गे आयतनं जिनमार्गे । णिदिदं संजय रूवं निर्दिष्टमागमे प्रतिपादितं सांयतं रूपं संयमिनः सचेतनं शरीरं । मय राय दोस मोहो कोहो लोहो य जस्स आयत्ता । पंचमहव्वयधारा आयदणं महरिसी भणियं ॥ ६॥ मदो रागो द्वेषो मोहः क्रोधो लोभश्च यस्य आयत्ताः । पञ्चमहाव्रतधरा आयतनं महर्षयो भणिताः ॥ मय राय दोस मोहो मदोऽष्टविधः । उक्तं च समन्तभद्रेण महाकविना ज्ञानं पूजां कुलं जातिं बलमृद्धिं तपो वपुः। अष्टावाश्रित्यमानित्वं स्मयमाहुर्गतस्मयाः ॥ १॥ रागः प्रीतिलक्षणः । दोषोऽप्रीतिस्वभावः । मोहः कलत्रपुत्रमित्रादिस्नेहः। कोहो लोहो य जस्स आयत्ता क्रोधो रोषस्वभावः, लोभो मूर्छा परिग्रहग्रहणस्वभावः । चकारात्परवंचनप्रकृतिर्माया । एते पदार्था यस्य महर्षेः त्रिविधमुनिसमूहस्याऽऽयत्ताः निग्रहपरिग्रहनाथवन्तो भवन्ति । पंचमहव्वयधारा पंचमहाव्रतधरा अहिंसासत्याचौर्यब्रह्मचर्याकिंचन्यानि रात्रिभोजनवर्जनषष्ठानि प्रतिपालयन्तः । आयदणं महरिसी भणियं आयतनं महर्षयो भणिताः। एतेऽभिगमनयोग्या भवन्ति दर्शनस्पर्शनवन्दनाश्चि भवन्ति । अन्ये विलिंगिनो जटिनः पाशुपता एकदण्डत्रिदण्डधरा मिथ्यादृष्टिमुण्डिनः शिखिनः पंचचूलाः भस्मोद्धलना नग्नाण्डकाः चरकनामानो दिगम्बरसंज्ञकाः हंसपरमहंसाभिधानाः पशुयाज्ञिकाः दीक्षिता अध्वर्यवः उद्गातारो होतार आथर्वणाः व्यासाः स्मार्ता जैना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy