SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । बहुसत्थअत्थजाणे संजमसम्मत्तसुद्धतवयरणे । वंदित्ता आयरिए कसायमलवज्जिदे सुद्धे ॥१॥ सयलजणवोहणत्थं जिणमग्गे जिणवरेहिं जह भणियं । वुच्छामि समासेण य छक्कायहियंकरं सुणसु ॥२॥ बहुशास्त्रार्थज्ञायकान् संयमसम्यक्त्वशुद्धतपश्चरणान् । वन्दित्वाऽऽचार्यान् कषायमलवर्जितान् शुद्धान् ॥ सकलजनबोधनार्थ जिनमार्गे जिनवरैर्यथा भणितम् । वक्ष्यामि समासेन च षटकायहितंकरं शृणु ॥ . वुच्छामि वक्ष्यामि कथयिष्यामि । कः कर्ता अहं श्रीकुन्दकुन्दाचार्यः । किं तत्कर्मतापन्नं, छक्कायहियंकरं षट्कायाहितंकरं पृथ्व्यप्तेजोवायुवनस्पतित्रसकायहितकारकं शास्त्रं बोधप्राभूताभिधानं शास्त्रं । केन कृत्वा वक्ष्यामि, समासेण संक्षेपेण । सुणसु शृणु त्वं हे भव्य ! "विध्यादिषु त्रयाणामे कत्र दुसुमुश्च" इत्येनेन प्राकृतव्याकरणसूत्रेण हिस्थाने सुरादेशः बहुवचने तु पंचम्याः सुणह इत्येवं भवति मध्यमस्य । कथंभूतं बोधप्राभतं, जिणमग्गे जिणवरोहिं जह भणियं जिनमार्गे जिनशास्त्रे जिनवरैः केवलिभिर्यथा येन प्रकारेणाऽऽयतनादिभिर्भणितं प्रतिपादितं । किमर्थं जिनैर्भणितं, सयलजणबोहणत्थं सर्वभयजीवसम्बोधननिमित्तं। किं कृत्वा पूर्व वुच्छामि, वंदित्ता आयरिए पन्दित्वाऽऽचार्यान् तृतीयपरमेष्ठिपदस्थान् गुरुन् । कथंभूतानाचार्यान, बहुसत्थअत्थजाणे अनेकशास्त्रार्थज्ञायकान्। पुनः कथंभूतानाचार्यान् . संजमसम्मत्तसुद्धतवयरणे संयमश्च चारित्रं, सम्यक्त्वं च सम्यग्दर्शनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy