SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृते ये द्वाविंशतिपरीषहान् सहन्ते शक्तिशतैः संयुक्ताः । ते भवन्ति वन्दनीयाः कर्म्मक्षयनिर्जरासाधवः॥ जवावीसपरीसह सहति ये द्वाविंशतिपरीषहान् सहन्ते । सत्तीसएहिं संजुत्ता शक्तीनां शतैः संयुक्ताः । ते होंति वंदणीया ते भवन्ति वन्दनीया नमोऽस्तु शब्दयोग्याः । कम्मक्खयनिज्जरासाहू कर्मक्षयनिर्जरासाधवः ये कर्मक्षये निर्जरायां च साधवः कुशला भवन्ति योग्या भवन्तीति भावः । ६२ अवसेसा जे लिंगी दंसणणाणेण सम्मसंजुत्ता | चेलेण य परिगहिया ते भणिया इच्छणिज्जाय ॥ १३ ॥ अवशेषा ये लिङ्गिनः दर्शनज्ञानेन सम्यक्संयुक्ताः । चेलेन च परिग्रहीताः ते भणिता इच्छाकारयोग्याः ॥ अवसेसा जे लिंगी अवशेषा ये लिंगिनः क्षुल्लकगुरवः । दंसणणाणेण सम्मसंजुत्ता दर्शनज्ञानेन सम्यक्संयुक्ताः । चेलेण य परिगहिया वस्त्रैकधराः सकोपीनाश्च वस्त्रमपि सीवितं न भवति किं तर्हि खण्डवस्त्रं धरन्ति ते वस्त्रपरिगृहीताः । ते भणिया इच्छणिज्जाय ते भणिता इच्छाकारयोग्या नमस्कारयोग्याः | : इच्छायारमहत्थं सुत्तठिओ जो हु छेडए कम्मं । ठाणे द्वियसम्मत्तं परलोयसुहंकरो होइ ॥ १४ ॥ इच्छाकारमहार्थं सूत्रस्थितः यः स्फुटं त्यजति कर्म । स्थाने स्थितसम्यक्त्वः परलोकसुखकरो भवति ॥ इच्छायारमहत्थं इच्छाशब्देन नम उच्यते कारशब्दस्तु अधःस्थः क्रियते तेन नमस्कार इति भवति । क्षुल्लकानां वन्दनं । सुत्तठिओ जो हु छंडए कम्मं सुत्तट्ठिओ - सूत्रस्थितः समयं जानन् यः पुमान् कर्म त्यजति गृहस्थकर्म न करोति वैयावृत्यं विना स्वयं रन्धनादिकं न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy