SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४९ चारित्रप्राभृतं । कोहभयहासलोहामोहा विवरीयभावणा चेव । विदियस्स भावणाए ए पंचेव य तहा होति ॥ ३२ ॥ क्रोधभयहास्यलोभमोहा विपरीतभावनाः चव । द्वितीयस्य भावना इमाः पंचैव च तथा भवन्ति ॥ कोहभयहासलोहामोहा क्रोधश्च भयं च हासश्च लोभश्च मोहश्च क्रोधभयहासलोभमोहाः । विवरीयभावणा चेव विपरीतभावनाश्चैव । एतेषां पंचानां विपरीतभावना: अक्रोधनः, अभयः, अहासः, अलोभः, अमोहश्चेति । उक्तं च गौतमेन भगवता अंकोहणो अलोहो य भयहस्सविवजिदो। अणुवीचीभासकुसलो विदियं वदमस्सिदो॥१॥ अत्रामोहशब्देनानुवीचीभाषाकुशल इति लभ्यते । वीची वाग्लहरी तामनुकृत्य या भाषा वर्तते साऽनुवीचीभाषा, जिनसूत्रानुसारिणी भाषा अनुवीचीभाषा पूर्वाचार्यसूत्रपरिपाटीमनुलंध्य भाषणीयमित्यर्थः । उक्तं च उमास्वामिभट्टारकेण-- “क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचीभाषणं च पंच" विदियस्स भावणाए द्वितीयस्य महाव्रतस्य भावनाः । ए इमाः पंचभावनाः । होति भवन्ति । सुण्णायारनिवासो विमोचितावास जं परोधं च । एसणसुद्धिसउत्तं साहम्सीसंविसंवादो ॥ ३३॥ शून्यागारनिवासो विमोचितावासः यत् परोधं च । एषणाशुद्धिसहितं सधर्मसमविसंवादः ॥ सुण्णायारनिवासो शून्यागारेषु गिरिगुहातरुकोटरादिषु निवासः क्रियते तथा सति अचौर्यव्रतभावना प्रथमा भवति । विमोचितावास १ अक्रोधनोऽलोभश्च भयहास्यविवर्जितः । __ अनुवीचीभाषा कुशलो द्वितीयं व्रतमाश्रितः ॥ १ ॥ षद. ४ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy