SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभतं । ___ अष्टौ मूलगुणाः । ते के, वटफलानामभक्षणं १ पिप्पलफलवर्जनं २ "प्लक्षो जटी पर्कटी स्यात्" तत्फलनिवारणं ३ उदुंबरो जघने फलामलयुः गूलर इति देश्यात् तत्फलनिषेधः ४ कठंजर कठ्बर अंजीर इति देश्यात् तत्फलानामभक्षणं मद्य ६ मांस ७ मधु ८निषेध इत्यष्टौ मूलगुणाः । अथवा मद्यपलमधुनिशाशनपंचफलीविरतिपंचकातनुती । जीवदया जलगालनमिति च क्वचिदष्टमूलगुणाः॥१॥ सप्तव्यसनवर्जनं । उक्तं च--- मद्यमांससुरावेश्याखेटचौर्यपराङ्गानाः। महापापानि सप्तैव व्यसनानि त्यजेद्बुधः ॥१॥ सम्यक्त्वप्रतिपालनं परशास्त्राणामश्रवणमिति विशुद्धमतिः । मूलकनालिकापद्मिनीकन्दलशुनकन्दतुंबकफलकुशुंभशाककलिंगफलसूरणकन्दत्यागश्च । अरणीपुष्पं वरणपुष्पं सौभाञ्जनकुसुमं करीरपुष्पं कांचनारपुष्पमिति पंचपुष्पत्यागः । लवणतैलघृतधृतफलसन्धानकमुहूर्तद्वयोपरिनवनीतमांसादिसेविभाण्डभाजनवर्जनं । चर्मस्थितजलस्नेहहिंगुपरिहारः। अस्थिसुराचर्ममांसरक्तपूयमलमूत्रमृताङ्गिदर्शनतः प्रत्याख्यातान्नसेवनाचाण्डालादिदर्शनात्तच्छब्दश्रवणाच्च भोजनं त्यजेत् । सुललितपुष्पितस्वादचलितमन्नं त्यजेत् । षोडशप्रहरादुपरि तक्रं दधि च त्यजेत् । द्विदलान्नमिश्रं दधि तक्रं स्वादितं सम्यक्त्वमपि मलिनयेत् । ताम्बूलौषधजलं रात्रौ त्यजेत् । एष सर्वोऽपि दर्शनप्रतिमाचारः । वय द्वादशवतानि, अहिंसा स्थूलवधाद्विरमणं, सत्यं स्थूलसत्यवचनं, स्थूलमचौर्य, ब्रह्मचर्य स्वदारसन्तोषः परदारनिवृत्तिः कस्यचित्सर्वस्त्रीनिवृत्तिः, परिग्रहपरिमाणवतं, दिग्विदिक्परिमाणविरतिः, अनर्थदण्डपरिहारः, भोगोपभोगपरिमाणमिति गुणवतत्रयं, सामायिकं, १ क. पुस्तके तु धृतशब्दो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy