SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभृतं । तं चेव गुणविसुद्धं जिणसम्मत्तं सुमुक्खठाणाय । जं चरइ णाणजुत्तं पढमं सम्मत्तचरणचारित्तं ॥ ८ ॥ तञ्चैव गुणविशुद्धं जिनसम्यक्त्वं सुमोक्षस्थानाय । यच्चरति ज्ञानयुक्तं प्रथमं सम्यक्त्वचरणचारित्रम् ॥ तं चेव गुणविसुद्धं तच्चैव सम्यक्त्वं गुणविशुद्धं निःशंकितादिभिरष्टगुणैर्विशुद्धं निर्मलं । जिणसम्मत्तं जिनसम्यक्त्वं जगत्पतिश्रीमद्भगवदर्हत्सर्वज्ञवीतरागस्य सम्बन्धिनी श्रद्धा रुद्रादिश्रद्धानरहितं जिनसम्यक्त्त्वमुच्यते । रुद्रादिसम्यक्त्वं किं ? तदुक्तं अग्निवत्सर्वभक्ष्योऽपि भवभक्तिपरायणः। भुक्तिं जीवन्नवाप्नोति मुक्तिं तु लभते मृतः ॥१॥ भवभक्तिपरायणो रुद्रभक्तिपरायणः । सुमुक्खठाणाय सुमोक्षस्थानाय तीर्थकरपरमदेवो भूत्वा सर्वकर्मक्षयलक्षणं मोक्षस्थानं प्राप्नोति सुमोक्षस्थानं तस्मै सुमोक्षस्थानाय परमनिर्वाणप्राप्त्यर्थमित्यर्थः । जं चरइ णाणजुत्तं यच्चरति यत्प्रतिपालयति यतिः णाणजुत्तं-ज्ञानयुक्तं सम्यक्त्वं ज्ञानसहितं सम्यक्त्वं । अथवा क्रियाविशेषणमिदं । तेनायमर्थः ज्ञानयुक्त यथा भवत्येवं चरति। पढमं सम्मत्तचरणचारित्तं द्वयोर्दर्शनाचारचारित्राचारयोर्मध्ये सम्यक्त्त्वाचारचारित्रं पढम-प्रथमं भवति । सम्मत्तचरणसुद्धा संजमचरणस्स जइ व सुपसिद्धा । णाणी अमूढदिही अचिरे पावंति निव्वाणं ॥ ९॥ सम्यक्त्वचरणशुद्धाः संयमचरणस्य यदि वा सुप्रसिद्धाः । ज्ञानिनः अमूढदृष्टयः अचिरं प्राप्नुवन्ति निर्वाणम् ॥ १ अस्मादग्रे ग. घ. मुद्रित पुस्तके च इदं गाथासूत्रं वर्तते-- सम्मत्तचरणभट्ठा संजमचरणं चरंति जइ वि गरा। अण्णाणणाणमूढा तह वि ण पावंति णिवाणं ॥१॥ इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy