SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २२५ मुनिक्यनगारनिवहः संघः, अथवा ऋष्यार्यिकाश्रावकश्राविकानिवहः संघस्तस्य वैयावृत्य, चिरप्रव्रजित्तः साधुस्तस्य वैयावृत्यं, विद्वत्ताक्तृत्वादिलोकसम्मतोऽसंयतसम्यग्दृष्टि, मनोज्ञस्तस्य वैयावृत्यं । किं तद्वैयावृत्यं ? एतेषां दशविधानामाचार्यादीनां व्याधिपरीषहमिथ्यात्वादेः प्रासुकौषधभक्तादिप्रतिश्रयसंस्तरादिभिर्धर्मोपकरणैः सम्यक्त्वप्रतिस्थापनं च प्रतीकारो वैयावृत्यं । बाह्यद्रव्याभावे स्वकाये (न) श्लेष्माद्यन्तर्मलापकर्षणादिस्तदानुकूल्यानुष्ठानं च वैयावृत्यं । वैयावृत्यकरणे किं फलं ? समा (ध्या) धानं । ___ वाचना-संशयच्छेदाय निश्चितवलाधानाय वा ग्रन्थार्थोभयस्य परं प्रत्यनुयोगः । आत्मोन्नतिपरातिसन्धानोपहासादिवर्जितः पृच्छना । अधिगतार्थस्यैकाग्र्येण मनसाभ्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमाम्नायः। दृष्टादृष्टप्रयोजनानपेक्षमुन्मार्गनिवर्तनसन्देहच्छेदापूर्वार्थप्रकाशनाद्यर्थो धर्मकथानुष्ठानं धर्मोपदेशः । पंचविधस्य स्वाध्यायस्य किं फलं ! प्रज्ञातिशयप्रशस्ताध्यवसायप्रवचनस्थितिसंयोच्छेदपरवादिशंकाद्यभावसंवेगतावृद्धयतिचारविशुद्धाद्यर्थः पंचविधः स्वाध्यायः । नियतकालो यावजीवं वा कायस्य त्यागोऽभ्यन्तरोपधिव्युत्सर्गः । बाह्यस्त्वनेकप्रायो व्युत्सर्गः । नि:संगत्वनिर्भयत्वजीविताशाव्युदासदोषोच्छेदमोक्षमार्गभावनापरत्वादि व्युत्सर्गफलम् । अथ ध्यानं नाम द्वादशे तप उच्यते तदर्थमिदं सूत्रमुमास्वामिभिः कृतं"उत्तमसंहनस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात्।" अस्यायमर्थः-वज्रऋषभनाराचसंहननं, वज्रनाराचसंहननं, नामाचसंहननं संहननक्यमुत्तमं संहननं मोक्षादिकारणत्वात् । प्रथमं संहनन मोक्ष्यस्य हेतुः । ध्यानस्य हेतुस्त्रितयमपि भवति । अर्धनाराचस्य कीलि. षद. १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy