SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । १०५ त्तरं शतं लक्षणानि । गोखीरसंखधवलं गोक्षीरवच्छंखवद्धवलमुज्वलं । मंसं रुहिरं च सव्वंगे मांसं गोक्षीरवद्धवलं रुधिरं गोक्षीरवद्धवलं सर्वाङ्गे सर्वस्मिन् शरीरे। एरिसगुणेहिं सव्वं अइसयवंत सुपरिमलामोयं । ओरालियं च कायं णायव्वं अरुहपुरिसस्स ॥ ३९ ॥ ईदृशगुणैः सर्वः अतिशयवान् सुपरिमलामोदः । __ आदारित्रश्च कायः ज्ञातव्यः अर्हत्पुरुषस्य ॥ एरिसगुणेहिं सव्वं ईदृशगुणैः संयुक्तः सर्वः कायोऽर्हत्पुरुषस्य ज्ञातव्यः इति सम्बन्धः । अइसयवंतं सुपरिमलामोयं अतिशयवान् सुष्ठु अतिशयेन परिमलेन विमर्दोत्थगन्धेन कर्पूरादिना सदृश: आमोदो गन्धविशेषो यत्र काये स सुपरिमलामोदः । ओरालियं च कायं परमौदारिक: कायः शरीरमर्हत्पुरुषस्य भवति स्थिरः स्थूलरूपश्चक्षुर्गम्य औदारिक उच्यते । णायव्वं अरुहपुरिसस्स ज्ञातव्यो वेदितव्यः कायोऽहत्पुरुषस्य श्रीमद्भगवदर्हत्सर्वज्ञवीतरागस्य शरीरं ज्ञातव्यमित्यर्थः । मयरायदोसरहिओ कसायमलवज्जिओ य सुविसुद्धो। चित्तपरिणामरहिदो केवलभावे मुणेयव्वो ॥४०॥ मदरागदोषरहितः कषायमलवर्जितश्च सुविशुद्धः । चित्तपरिणामरहितः केवलभावे ज्ञातव्यः ॥ . मयरायदोसरहिओ मदरहितो रागरहितो दोषरहितः । कसायमलवज्जिओ य सुविसुद्धो कषायाः क्रोधमानमायालोभाः, मला हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकलक्षणा नोकषायास्तैर्वर्जितो रहितः, सुविशुद्धः शान्तमूर्तिः । चित्तपरिणामरहिदो मनोव्यापाररहितः । केवलभावे मुणेयव्यो क्षायिकभावे मुनितव्यो ज्ञातव्यो ऽर्हन्निति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy