SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ... बोधप्राभतं । क्षुत्पिपासाजरातकजन्मान्तकभयस्मयाः। न रागद्वेषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥१॥ चकाराच्चिन्तारतिनिद्राविषादस्वेदखेदविस्मया गृह्यन्ते। कम्मे-घातिकर्माणि । हंतूण-हत्वा । हुउ णाणमयं च अरहंतो भूतः संजात: कीदृशः णाणमयं-ज्ञानमयः केवलज्ञानवान्, अर्हन् इन्द्रादिकृतामहणां पूजामनन्यसंभविनीमहतीत्यर्हन् सर्वज्ञः वीतरागः । गुणठाणमग्गणेहि य पज्जत्तीपाणजीवठाणेहि । ठावण पंचविहेहिं पणयव्या अरुहपुरिसस्स ॥ ३१ ॥ गुणस्थानमार्गणाभिश्च पर्याप्तिप्राणजीवस्थानैः । स्थापना पञ्चविधैः प्रणेतव्या अर्हत्पुरुषस्य ॥ गुणठाणमग्गणेहि य गुणस्थानेनार्हन् प्रणतव्यो योजनीयः। कानि तानि गुणस्थानानि ? तन्निर्देशो गाथाद्वयेन क्रियते--- मिच्छा सासण मिस्सो अविरिय सम्मो य देसविरओ य। विरया पमत्त इयरो अयुव अणियट्टि सुहमो य ॥१॥ उवसंतखीणमोहो सजोगकेवलिजिणो अजोगी य । चउदस गुणठाणागि य कमेण सिद्धा य णायया ॥२॥ मार्गणाश्चतुर्दश निक्ष्यति । पज्जत्ती षड्भिः पर्याप्तिभिरर्हन् प्रणेतव्यः। ता अपि निर्देक्ष्यति । पाणजीवठाणेहि प्राणैर्दशभिरर्हन् प्रणेतव्यः। तानपि निर्देक्ष्यति । जीवस्थानानि चतुर्दशसु गुणस्थानेषु जीवा १ जाणमओ इति पाठान्तरं । २ मिथ्यात्वं सासादनं मिश्रं अविरतसम्यक्त्वं देशविरतश्च । विरतः प्रमत्त इतरोऽपूर्वोऽनिवृत्तिः सूक्ष्मश्च ॥ १॥ उपशान्तक्षीणमोहः सयोगकेवलिजिनोऽयोगी च । चतुदशगुणस्थानानि च क्रमेण सिद्धाश्च ज्ञातव्याः ॥ २॥ षट्र.७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy