SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । vvvvvwvon __णाणं पुरिसस्स हवदि ज्ञानं श्रुतज्ञानं पुरुषस्यासनभव्यजीवस्य भवति सन्तिष्ठते । लहदि सुपुरिसो वि विणयसंजुत्तो लभते प्राप्नोति ज्ञानं सुपुरुषोऽप्यासन्नभव्यजीवः । अपिशब्दाब्राह्मी-सुन्दरी-रात्रिमतिचन्दनादिवत् एकादशाङ्गानि लभन्ते, मृगलोचना अपि स्त्रीलिंगं छित्वा स्वर्गसुखं भुक्त्वा राजकुलादिषू-पद्य मोक्षं तृतीयेऽपि भवे लभन्ते । पुरुषास्तु सकलं श्रुतं लब्ध्वा तद्भवेऽपि मोक्षं यान्ति । ईदृशं ज्ञानं कः प्राप्नोति ? विणयसंजुत्तो-विनयसंयुक्तो गुरुचरणरेणुरंजितभालस्थल इति भावार्थः । णाणेण लहदि लक्खं ज्ञानेन श्रुतज्ञानेन लभते लक्ष्य निजात्मस्वरूपं । लक्खंतो मोक्खमग्गस्स लक्षयन् ध्यायन् लक्ष्य लभते, कस्य लक्ष्यं-मोक्षमार्गस्य रत्नत्रयस्य । मइधणुहं जस्स थिरं सुदगुण वाणा सुअस्थि रयणत्तं । परमत्थबद्धलक्खो ण वि चुकदि मोक्खमग्गस्स ॥२३॥ मतिधनुर्यस्य स्थिरं श्रुतगुणो वाणाः सुसन्ति रत्नत्रयम् । परमार्थबद्धलक्ष्यः नापि स्खलति मोक्षमार्गस्य ॥ __मइधणुहं जस्स थिरं मतिर्मतिज्ञानं यस्य मुनेर्धनुश्चापं स्थिर निश्चलं । सुदगुण श्रुतज्ञानं गुणः प्रत्यंचा । वाणा सुअस्थि रयणतं बाणा: शराः सुष्टु अतिशयवन्तः सन्ति विद्यन्ते, किं ? रत्नत्रयं भेदाभेदलक्षणं रत्नत्रयं । परमत्थबद्धलक्खो परमार्थे निजात्मस्वरूपे बद्धलक्ष्यः निश्चलीकृतात्मस्वरूपो मुनिः । ण वि चुक्कदि मोक्खमग्गस्स न स्खलति मोक्षमार्गस्य लक्ष्ये इति सम्बन्धः । तथा चोक्तं श्रीवीरनन्दिशिष्येण पद्मनन्दिनाचार्येण--- प्रेरिताः श्रुतगुणेन शेमु कार्मुकेण शरवगादयः । बाह्य वेध्यविषये कृतश्रमाश्चिद्रणे प्रहतकर्मशत्रवः ॥१॥ तथा च सोमदेवस्वामिनापि श्रुतज्ञानस्य गुणस्तुतिकृता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy