SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८० श्रुतावतारः । भगवत्परिनिर्वाणक्षण एवावाप केवलं गणभृत् । गौतमनामा सोऽपि द्वादशभिर्वत्सरैर्मुक्तः ॥ ७२ ॥ निर्याणक्षण एवासावापत्केवलं सुधर्ममुनिः । द्वादशवर्षाणि विहृत्य सोऽपि मुक्ति परामाप ॥ ७३ ॥ जम्बूनामाऽपि ततस्तन्निर्वृतिसमय एव कैवल्यम् । प्राप्पाष्टत्रिंशतामह समा विहृत्याप निर्वाणम् ॥ ७४ ॥ एते त्रयोऽपि मुनयोऽनुबद्ध केवल विभूतयोऽमीषाम् । केवलदिवाकरोऽस्मिन्नस्तमवाप व्यतिक्रान्ते ॥ ७५ ॥ जम्बूनामा मुक्तिं प्राप यदासौ तथैव विष्णुमुनिः । पूर्वाङ्गभेदभिन्नाशेषश्रुतपारगो जातः ॥ ७६ ॥ एवमनुबद्धसकलश्रुतसागरपारगामिनोऽत्रासन् । नन्यपराजितगोवर्धनाह्वया भद्रबाहु ॥ ७७ ॥ एषां पञ्चानामपि काले वर्षशतसम्मितेऽतीते । दशपूर्वविदोऽभूवस्तत एकादश महात्मानः ॥ ७८ ॥ तेषामाद्यो नाम्ना विशाखदत्तस्ततः क्रमेणासन् । प्रोष्ठिलनामा क्षत्रियसंज्ञो जयनागसेनसिद्धार्थाः ॥ ७९ ॥ धृतिषेणविजय सेनौ च बुद्धिमान्गङ्गधर्मनामानौ । एतेषां वर्षशतं त्र्यशीतियुतमजनि युगसंख्या ॥ ८० ॥ नक्षत्रो जयपालः पाण्डुर्दुमसेन कंसनामानौ । एते पञ्चापि ततो बभूवुरेकादशाङ्गधराः ॥ ८१ ॥ विंशत्यधिकं वर्षशतद्वयमेषां बभूव युगसंख्या । आचाराङ्गधराश्चत्वारस्तत उद्भवन् क्रमशः ॥ ८२ ॥ प्रथमस्तेषु सुभद्रोऽभयभद्रोऽन्याऽपरोऽपि जयबाहुः । लोहार्योऽन्त्यश्चैतेऽष्टादशवर्षयुग संख्या ॥ ८३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy