SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीचंद्रकृता अथ श्रीचंद्रकृता वैराग्यमणिमाला । चिंतय परमात्मानं देवं योगिसमूहैः कृतपदसेवं । संसारार्णववरजलयानं केवलबोधसुधारसपानं ॥ १ ॥ जीव जंहीहि धनादिकतृष्णां मुंच ममत्वं लेश्यां कृष्णां । धर चारित्रं पालय शीलं सिद्धिवधूक्रीडावरलीलं ॥ २ ॥ अधुवमिदमालय शरीरं जननीजनकधनादि सदारं । वांछां कुरुषे जीव नितांतं किं न हि पश्यसि मूढं कृतांत ॥३॥ बाल्ये वयसि क्रीडासक्तस्तारुण्ये सति रमणीरक्तः । वृद्धत्वेऽपि धनाशाकष्टस्त्वं भवसीह नितांतं दुष्टः ॥ ४ ॥ का ते आशा यौवनविषये अध्रुवजल बुद्बुदसमकाये । मृत्त्वा यास्यसि निरयनिवासं न ज॑हसि तदपि धनाशापाशं ५ भ्रातर्मे वचनं कुरु सारं चेत्त्वं वांछसि संसृतिपारं । मोहं त्यक्त्वा कामं क्रोधं त्यज भज त्वं संयमवरबोधं ॥६॥ का ते कांता कस्तव तनयः संसारोऽपि च दुःखमयो यः। पूर्वभवे त्वं कीहरभूतः पापानवकर्मभिरभिभूतः ॥७॥ शरणमशरणं भावय सततमर्थमनर्थ चिंतय नियतं । नश्वरकायपराक्रमीवत्त वांछां कुरुषे तस्य हि चित्ते ॥ ८ ॥ एको नरके याति वराकः स्वर्गे गच्छति शुभसविवेकः । राजाप्येकः स्याञ्च धनेशः एकः स्यादविवेको दासः ॥ ९ ॥ १ तरणिः २ त्यज ३ नश्वरं ४ जानीहि ५ यमम् । ६ स्त्रीरतः ७ नरकस्थानं ८ त्यजसि ९ तिरस्कृतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy