SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १४ चारित्रसारे रनियतकालगमनमित्यर्थः । अतिथये संविभागोऽतिथिसंविभागः, स चतुर्विधः, भिक्षोपकरणौषधप्रतिश्रयभेदात् । उक्तं हि-- प्रतिग्रहोच्चस्थाने च पादक्षालनमर्चनम् । प्रणामो योगशुद्धिश्च भिक्षाशुद्धिश्च ते नव ॥ उक्तं हि-- श्रद्धा शक्तिरलुब्धत्त्वं भक्तिज्ञानं दया क्षमा। इति श्रद्धादयः सप्त गुणाः स्युर्म्यहमधिनाम् ॥ . एवंविधनवविधपुण्यैः प्रतिपत्तिकुशलेन सप्तगुणैः समन्वितेन मोक्षमार्गमभ्युद्युतायातिथये संयमपरायणाय शुद्धचेतसाऽऽश्चर्यपंचकादिकमनिच्छता निरवद्या भिक्षा देया । धर्मोपकरणानि च सम्यग्दर्शनज्ञानचारित्रोपबृंहणानि दातव्यानि । औषधं ग्लानाय वातपित्तश्लेष्मप्रकोपहताय योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति । अतिथिसंविभागव्रतस्य पंचातीचारा भवंति । सचित्तनिक्षेपः, सचित्तपिधानं, परव्यपदेशः, मात्सर्य, कालातिक्रमश्चेति । तत्र सचित्ते पद्मपत्रादौ निधानं सचित्तनिक्षेपः । सचित्तेनावरणं सचित्तपिधानं । अयमत्र दाता दीयमानोऽप्ययमस्येति समर्पणं परव्यपदेशः । प्रयच्छतोऽपि सत आदरमंतरेण दानं मात्सर्यम् । अनगाराणाम. योग्ये काले भोजनं कालातिकम इति । पात्रदानं स्वस्य परस्य चोपकारः, स्वोपकारः पुण्यसंचयः परोपकारः सम्यग्ज्ञानादिवृद्धिः । तच्च दानं पारंपर्येणं मोक्षकारणं साक्षात्पुण्यहेतुः । विधिविशेषा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy