SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८८ आचारसारे numan.arrrrrrror... स्त्रीपुवेदाः सुरा भोगभूमिजाताश्च नारकाः। षण्ढाः सम्मूर्च्छिनश्चान्ये नृतियञ्चस्त्रिवेदिनः ॥ १०२॥ ईशानान्ते प्रवीचारः स्याहृयोस्त्रिचनुव॑तः। शरीरे स्पर्श रूपे च शब्दे चित्ते ततो न सः ॥१०३॥ चतुःकषायाः क्रुन्मानमायालोभा विपाकजाः । चतुःकषायाः सामान्यक्रोधादिद्रव्यकर्मणः ॥ १०४॥ ज्ञानमष्टविधं ज्ञातं पुरा स्युः सप्त संयमाः। चारित्रपंचकं देशसंयमासंयमान्वितम् ॥ १०५॥ प्रत्याख्यानकषायोदयेन स्याद्देशसंयमः। विविधाऽसंयमो भावोप्रत्याख्यानकषायतः॥१०६ ॥ दर्शनं ग्रहणं सामान्यात्मनस्तच्चतुर्विधम् । अचक्षुश्चक्षुरवधिः केवलं चेति वर्णितम् ॥ १०७॥ चक्षुःशेषेन्द्रियज्ञानहेत्वचक्षुरचक्षुषी। विभंगावधिहेतुः स्यादेकं त्ववधिदर्शनम् ॥ १०८ ॥ चक्षुरचक्षुरवधिदर्शनावरणैनसाम् । क्षयोपशमतश्चक्षुर्दर्शनादित्रयं भवेत् ॥ १०९ ॥ समं केवलबोधेन केवलं दर्शनं भवेत् । निजावरणनिःशेषक्षयात्क्षायिकमक्रमात् ॥ ११० ॥ कृष्णनीलकपोताख्या लेश्यास्तिस्रोऽशुभाः शुभाः। स्युस्तेजःपद्मशुक्लाख्याः कषायोन्मिश्रयोगजाः ॥ १११॥ निर्वाणयोग्यता भव्यताऽन्याऽनिर्वाणयोग्यता। अष्टकर्मोदयाज्जाते अप्येते पारिणामिकौ ॥११२ ॥ षट् सम्यक्त्वानि पूर्वोक्तवेदकादिरुचित्रयम् । मिथ्यात्वसम्यमिथ्यात्वसासादनगुणैः सह ॥ ११३ ॥ मिथ्यात्वकर्मणः पाकान्मिथ्यात्वं मिश्रता भवेत्। सम्यमिथ्यात्वकर्मोदयात्तु श्रद्धानघातिनः ॥ ११४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy