SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ चतुर्थाऽधिकारः । भौमभावनयोयजनानि स्युः पंचविंशतिः । जघन्यक्षेत्रं ज्योतिष्के ततः संख्यात संगुणम् ॥ ४६ ॥ असुरेष्वसंख्यकोट्यः स्युरुत्कृष्टमपरेषु तु । ज्योतिष्कान्तेष्वसंख्यातसहस्राणि ततः क्रमात् ॥ ४७ ॥ द्विद्विश्चतुश्चतुर्द्विर्द्विर्नव चतुर्दशस्वपि । कल्पेषु स्याद्विमानेषु कल्पातीतेषु चावधेः ॥ ४८ ॥ अधो धर्मादि लोकान्तादारभ्य त्रसनालिकम् । क्षेत्रमूर्ध्वं वरक्षेत्रं स्वस्वलोकान्तसंस्थितम् ॥ ४९ ॥ त्रिकम् । अयं स्यादवधिबोधावृतिवीर्यान्तराययोः । क्षयोपशमतो बोधोऽसंख्यलोकविकल्पतः ॥ ५० ॥ स्यादेतत्रयमज्ञानं मिथ्यानं तानुबन्धिनाम् । उदयेनाऽऽशु कटु वा कलाबुगतं पयः ॥ ५१ ॥ मनो देशावधेज्ञेयं मध्यमं चिन्तितादिकम् । परैः पर्येति तद्यत्तन्मनः पर्ययबोधनम् ॥ ५२ ॥ ऋजुविपुलमती तद्भेदावाद्या त्रिभेदगा । ऋजुकायवाक्य चेतोगतार्थविषयत्वता ॥ ॥ ५३ ॥ ऋज्वऋजुदेहवाक्यस्वान्तस्वार्थावबोधनात् । विपुलमतिः षद्भेदाऽसंख्यकल्प मिता च सा ॥ ५४ ॥ मनः पर्ययविज्ञानावृतिवीर्यान्तराययोः । जातं मन्दोदयादेतत्क्षायोपशमिकं ततः ॥ ५५ ॥ त्रिकालानंतधर्मात्मानंतवस्तुप्रकाशकम् । युगपत्केवलं ज्योतिः करणावरणातिगम् ॥ ५६ ॥ क्षणं प्रत्यक्षरं ज्ञेयैः समं विपरिवर्तते । तदेकमुपमाततिं परमानन्दमन्दिरम् ॥ ५७ ॥ परद्रव्येन्द्रियानेकप्रकाशादिवशीकृते । मतिश्रुते परोक्षे स्तः प्रत्यक्षमवधित्रयम् ॥ ५८ ॥ Jain Education International For Private & Personal Use Only २५ www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy