SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽधिकारः । Antarva आधसंख्याहृते स्वेष्टभाज्ये शुद्धोन्तसंस्थितः । शेषे शेषमितस्थाने संस्थितोऽकस्ततः परम् ॥ २४ ॥ लब्धं रूपाधिकं भाज्यं भाज्यशेषेऽन्यथा पुनः । लब्धमेव स्वसंख्यायाः क्रियाऽन्या स्यात्पुरोदिता ॥ २५ ॥ ऊर्द्धमात्मप्रमाणने रूपे तस्मिन्नधःक्रमात् । स्वस्वसंख्याहते संख्या सर्वत्राऽनकितोनितौ ॥२६॥ ये पालयंति शीलानि गुणांश्च प्रगुणाशयाः। लभन्ते ते भवच्छदादनंतसुखसम्पदम् ॥ २७ ॥ प्रणतभुवननाथो धर्मतीर्थाधिनाथः प्रहतदुरितवर्गः प्रोक्तसन्मुक्तिमार्गः। प्रशमितजनतार्तिः शुद्धदृग्ज्ञानमूर्तिः प्रवरकनककान्तिः श्रेयसे वोऽस्तु शान्तिः ॥ २८ ॥ मिथ्याभावभवातिदर्पपरतद्दःशासनोच्छेदकं प्रज्ञाज्ञावशवर्त्तमानजनतासत्सौख्यसंपादकम् । नानारूपविशिष्टवस्तुपरमस्याद्वादलक्ष्मीपदं जेजीयाज्जिनराजशासनमिदं स्वाचारसारप्रदम् ॥ २९ ॥ सिद्धान्तार्णवपूर्णतारकपतिस्तर्काम्बुजाहपतिः शब्दोद्यानवनामृतोरुसरणियोगीन्द्रचूडामणिः । विद्यापरसार्थनामविभवः प्रोद्धतचेतोभवः स्थेयादन्यमृतावनीमृदशनिः श्रीमेघचन्द्रो मुनिः ॥ ३० ॥ यद्वाक्छ्रीरवतंसमंडनमणिवैदग्ध्यदिग्धत्विषां यच्चारित्रविचित्रता शमभृतां सूत्रं पवित्रात्मनाम् । यत्कीर्तिर्धवलप्रसादनधुरं धत्ते धरायोषितः स त्रैविद्याविभूषणं विजयते श्रीमेघचन्द्रो मुनिः ॥ ३१॥ वैदग्ध्यश्रीवधूटीपतिरतुलगुणालंकृतिर्मेधचन्द्रस्वैविद्यस्यात्मजातो मदनमहिभूतो भेदने वजपातः। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy