SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । विधिवत्प्रयुक्तं भक्तवसत्यादि । क्व, सचे गुणसङ्घाते प्राणिगणे । किंविशिष्टे, चतुर्विधे यत्यार्यिकाश्रावकश्राविकाप्रकारे । न केवलमर्हच्चैत्यचैत्यालयश्रुतेषु विधिवत्प्रयुक्तमात्मीयं धनमल्पशः प्रभूतं भूत्वा फलति, किं तर्हि, सधेऽपीत्य. पिशब्दार्थः । एतेन सप्त गृहिणो धनव्ययस्थानानीत्युपदिष्टं वेदितव्यम् ॥ ७३। ___ एवं धर्मपात्रानुग्रहं गृहस्थस्यावश्यकार्यतयोपदिश्य सम्प्रति कार्यपात्रानु. ग्रहविध्युपदेशार्थमाह-- धर्मार्थकामसधीचो यथौचित्यमुपाचरन् । सुधीस्त्रिवर्गसम्पत्त्या प्रेत्य चेह च मोदते ॥ ७४ ॥ टीका--मोदते प्रल्हादते । कोऽसौ, सुधीः सद्बुद्धिः। कया, त्रिवर्गसम्पत्त्या धर्मार्थकामसम्पदा । क. प्रेत्य जन्मान्तरे। इहास्मिञ्जन्मनि । द्वौ च शब्दौ जन्मद्वयेऽपि तुल्यकक्षतां सूचयतः । किं कुर्व.-नुपाचरन् उपकुर्वन् ऋणीकमन्यान् कुर्वन् । कान्, धर्मार्थकामसध्रीचः त्रिवर्गसहकारिणः पुरुषान् । कथं, यथोचित्यं यद्यद्यस्य यस्य योग्यं दानमानादिकं तत्तत्तस्य तस्य कुर्वनि. त्यर्थः ॥ ७४ ॥ एवं समदत्तिं पात्रदात्तं च प्रबन्धेनाभिधायदानी दयादत्तिं विधेयतमत्वे नोपदिशन्नाह-- सर्वेषां देहिनां दुःखाद्विभ्यतामभयप्रदः । दयार्दो दातृधौरेयो निः सौरूप्यमश्नुते ॥ ७ ॥ टीका--अनुते प्राप्नोति । कोऽसौ, अभयप्रदः प्राणादिभयापसारकः । १ तेनाधीतं श्रुतं सर्व तेन तप्तं परं तपः। तेन कुत्स्नं कृतं दानं यः स्यादभयदानवान् । धर्मार्थकाममोक्षाणां जीवितं मूलमिष्यते । तद्रक्षता न किं दत्तं हरता तन्न किं हृतम् ॥ दानमन्यद्भवेन्मा वा नरश्चेदभयप्रदः । सर्वेषामेव दानानां यतस्तदानमुत्तमम् ॥ यो भूतेष्वभयं दद्यात् भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तागाध्यास्यते फलम् ॥ सौरूप्यमभयादाहुराहाराद्भोगवान्भवेत् । आरोग्यमौषधाज्ञेयं श्रुतात्स्यात् श्रुतकेवली ॥ (शेषत्स्वग्रपृष्ठे ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy