SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः। किंविशिष्टानां, हिंसारम्भविवर्तिनां हिंसाप्रायः आरंभः कृष्यादिः तत्र विवर्तन्ते विविधं परिणमन्तेऽभीक्ष्णमिति तद्विवर्तिनस्तेषां । किंविशिष्टं तत्, तदित्यादि, तजिनचैत्यचैत्यालयादि तादृक्तीर्थयात्रादि, आलम्बनं दृग्विशुध्द्यङ्गं, प्रागल्भी प्रौढिः, आभिमानिकरसः अहङ्कारानुरक्तो हर्षः, तच्च तादृक्च तत्तादृक् तच्च तदालम्बनं च तस्य प्रागल्भी तया लसन् द्योतमानः स्वसंवित्तिविषयीभवन् आभिमानिकरसो यस्मिन् तत् तथोक्तम् ॥ ३५ ॥ शास्त्रविदामपि प्रायः प्रतिमादर्शनेनैव देवादिसेवापरां मतिं कुर्वाणं कलिकालमपवदते धिग्दुष्षमाकालरात्रिं यत्र शास्त्रदृशामपि । चैत्यालोकादृते न स्यात् प्रायो देवविशा मतिः ॥३६॥ टीका-धिक् निन्दामीत्यर्थः । कां, दुःषमाकालरात्रिं दुःषमा पञ्चमकालः कालरात्रिर्मरणनिशेव दुर्निवारमोहावहत्वात् । यत्र किं, यस्यां न स्यात् । काऽसौ, मतिरन्तःकरणप्रवृत्तिः । किंविशिष्टा, देवविशा देवं परमात्मानं विशत्यनन्यशरणीभूय श्रयतीति क्विबन्तादजाद्यतष्टाप् । केषां, शास्त्रदृशामपि श्रुतचक्षुषामपि । कथं, ऋते विना । कस्मात्, चैत्यालोकात् प्रतिमादर्शनात् । कथं, प्रायो बाहुल्येन । केषाञ्चित् ज्ञानवैराग्यपराणां चैत्यदर्शनमन्तरेणापि मनः परमात्मानं संश्रयतीति भावः ॥ ३६ ॥ कलौ धर्मस्थितिः सम्यक्चैत्यालयमूलैवेत्यनुशास्ति प्रतिष्ठायात्रादिव्यतिकरशुभस्वैरचरणस्फुरद्धमोद्धर्षप्रसररसपूरास्तरजसः । कथं स्युः सागाराः श्रमणगणधर्माश्रमपदं न यत्रार्हद्नेहं दलितकलिलीलाविलसितम् ॥ ३७ ॥ टीका-तत्र नगरादौ कथं स्युः, कथमपि न भवेयुरित्यर्थः । के ते, सागारा गृहस्थाः । किंविशिष्टाः, प्रतिष्ठेत्यादि, आदिशद्धः पूजाभिषेकजागरणाद्यर्थः । व्यतिकरः प्रघट्टकः, स्वैरं स्वच्छन्दं, उद्धर्ष उत्सवः, प्रसरश्चिरावस्थायित्वं, रसः हर्षों जलं वा, रजः पापं रेणुश्च, प्रतिष्ठायात्रादीनां व्यतिकरे शुभं प्रशस्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy