SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३८ सागारधर्मामृते-- . टीका-भवन्ति । का,-स्तदाख्याः तस्या जिनपूजाया आख्या नामानि । किं किं, सर्वतोभद्र इति, चतुर्मुख इति, महामह इति च तिस्रोऽन्वर्थाः तत्र सर्वत्र प्राणिवृन्दे कल्याणकरणात्सर्वतोभद्रः, चतुर्मुखमण्डपे विधीयमानत्वाञ्चतुर्मुखः, अष्टान्हिकापेक्षया गुरुत्वान्महामहः । या किं, जिनपूजा विधीयते । कै,-मकुटबद्धर्मकुटानि बद्धानि सामान्तादिभिर्येषां ते मकुटबद्धा मण्डलेश्वरास्तैः । कया, भक्त्या, न तु चक्रवर्त्यादिभयादिना । एषोपि कल्पवृक्षवत् केवलमत्र प्रतिनियतजनपदविषयं दानादिकम् ॥ २७ ॥ अथ कल्पवृक्षमहमाह--- किमिच्छकेन दानेन जगदाशाः प्रपूर्य यः। चक्रिभिः क्रियते सोऽर्ह-यज्ञः कल्पद्रुमो मतः ।। २८॥ टीका--मतः पूर्वाचार्यैः सम्मतः । कोऽसौ, सोऽहंद्यज्ञः । किमाख्यः, कल्पद्रुमः कल्पवृक्षनामा । यः किं, यः क्रियते । के,-श्चक्रिभिः सम्राभिः । किं कृत्वा,प्रपूर्य प्रकर्षेण पूरयित्वा । काः,जगदाशाः लोकानां मनोरथान् । केन, दानेन त्यागेन । किविशिष्टेन, किमिच्छकेन किमिच्छसीति प्रश्नपूर्वकं याचकेच्छानुरूपं क्रियमाणेन ॥ २८ ॥ सम्प्रति बलिस्नपनादिजिनपूजाविशेषाणां नित्यमहादिष्वेवान्तर्भावमाह-- बलिस्नपननाट्यादि नित्यं नैमित्तिकं च यत् ।। भक्त्या कुर्वन्ति तेष्वेव तद्यथास्वं विकल्पयेत् ॥ २९॥ टीका-विकल्पयेत् नित्यमहादीनामेव भेदमाचक्षीत विद्वान् । किं, तत् तत् । केषु, तेष्वेव नित्यमहादिषु । कथं, यथास्वं यथायोग्यं । यत्किं, यत्कुर्वन्ति निर्वर्तयन्ति । के ते, भक्ता भक्तिमन्तः । किं तत्, बलिस्नपननाट्यादि, बलिरुपहारः, स्नपनमभिषेकः, नाट्य गीतनृत्यवाद्यं, आदिशब्दात्प्रति ठारथयात्रादि । किंविशिष्टं, नित्यं प्रत्यहविधेयं । तथा नैमित्तिकं पर्वकर्तव्यम् ॥ २९॥ इदानीं जलादिपूजानां प्रत्येकं फलमालपतिवार्धारा रजसः शमाय पदयोः सम्यक्प्रयुक्तार्हतः सद्गन्धस्तनुसौरभाय विभवाच्छेदाय सन्त्यक्षताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy