SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते कोऽसौ, श्रावकः । किं तत्, कर्म भृत्वाऽऽश्रितानित्यादिना वक्ष्यमाणं । किंविशिष्टं, धयं दयाप्रधानत्वाद्धर्मादनपेतं, न केवलं धयं यशस्यं च धर्म्य तावदवश्यमाचरणीयं तच्चेत्कीत्यर्थं स्यात्तदा सुतरां भद्रकमित्ययमर्थश्चशद्वेनाचीयते । अनुक्तसमुच्चये वाऽत्र चः तेनायुष्यं च कर्म ब्राह्ममुहर्तोत्थानशरीरचिन्तादन्तधावनादिकमायुर्वेदप्रसिद्धमाचरेदिति लभ्यते । कथ, यथालोकं. लोकस्यानतिक्रमेण लोकानुसारेणत्यर्थः । यो य आलोक आप्तोपदेशप्रकाशस्तेन तेन तत्तत्कर्माचरेदिति ग्राह्यम् । कथं, सदा नित्यम् ॥ २३ ॥ इतोऽष्टादशभिः पद्यैर्जिनपूजां प्रपञ्चयति-- यथाशक्ति यजेताई-देवं नित्यमहादिभिः। सल्पतोऽपि तं यष्टा भेकवत्स्वमहीयते ॥ २४ ॥ टीका-यजेत् । कोऽसौ, श्रावकः । कं, अर्हदेवं । कथं, यथाशक्ति या या शक्तिस्तया। कै,-नित्यमहादिभिः वक्ष्यमाणैः । यतो महीयते पूज्यो भवति । कोऽसौ, जीवः । किंविशिष्टो, यष्टा ताच्छील्येन साधुत्वेन वा यजमानः । कं, तं अर्हदेवं । कस्मात्सङ्कल्पतोऽपि यजेऽहमहदेवमिति चिन्तनात्, किं पुनः कायेन गन्धाक्षतादिभिर्वाचा च विचित्रस्तवनैरुपचरन्नित्यपिशद्वार्थः । क महीयतेऽसौ, स्वः स्वर्गे महर्द्धिकदेवैः स्वामीति मत्वा पूज्यत इत्यर्थः । किंवत्, भेकवत् राजगृहनगरे श्रेष्ठिचरो दर्दुरो यथा ॥ २४ ॥ अथ नित्यमहमाहप्रोक्तो नित्यमहोऽन्वहं निजगृहानीतेन गन्धादिना पूजा चैत्यगृहेऽर्हतः स्वविभवैश्चैत्यादिनिर्मापणम् । दानं पूजा जिनैः शील-मुपवासश्चतुर्विधः । श्रावकाणां मतो धर्मः संसारारण्यपावकः ॥ आराध्यन्ते जिनेन्द्रा गुरुषु च विनतिर्धार्मिके प्रीतिरुच्चैः पात्रेभ्यो दानमापनिहतजनकृते तच कारुण्यबुध्द्या । तत्त्वाभ्यासः स्वकीयव्रतरतिरमलं दर्शन यत्र पूज्यं तद्गार्हस्थ्यं बुधानामितरदिह पुनर्दुःखदो मोहपाशः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy