SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । २१ विरतिमहं करिष्यामीति प्रतिपद्यमानो गृही सूरिभिरोमित्यनुज्ञायते । एतेन स्थावरवधानुमतिदोषानुषंगोऽप्याचार्याणां परिहृतो भवति ॥ १ ॥ अधुना पाक्षिकं दर्शन विशुद्धिमध्यासीनम हिंसा सिध्यर्थं मद्यादिविरतौ नियुक्त तत्रादौ श्रधज्जैनी - माज्ञां हिंसामपासितुम् । मद्यमांसमधून्युज्झेत्पञ्च क्षीरिफलानि च ॥ २ ॥ टीका-उज्झत् त्यजेत् । कोऽसो, देशसंयमोन्मुखो गृही। कानि, मद्यैमांसमधूनि न केवलमेतानि पञ्च क्षीरिफलानि च क्षीरिणां पिप्पलादीनां पञ्चानां फलानि । च-शब्दान्नवनीतरात्रिभुक्त्यगालितपानीयादिकमप्युत्सृजेदित्यनुक्तं समुच्चितं व्रतयति । किं कर्तुं, अपासितुं त्यक्तुं । कां, हिंसां भावतो मद्यादिवि'रागरूपां द्रव्यतश्च तद्गतप्राणिप्राणव्यपरोपणलक्षणाम् । किं कुर्वन् श्रधत् । कां, आज्ञां । किंविशिष्टां, जैनीं जिनागममित्यर्थः । क्क, आदौ प्रथमतः । क्व, तत्र गृहिधर्मे । एतेनेदमुक्तं भवति, तादृग्जिनाज्ञा श्रद्धानेनैव मद्यादिविरतिं कुर्वन् देशवती स्यात् न कुलधर्मादिबुध्द्या ॥ २ ॥ अथ स्वमतपरमताभ्यां मूलगुणान् विभजते अद्वैतान् गृहिणां मूल-गुणान् स्थूलवधादि वा । फलस्थाने स्मरेद् द्यूतं मधुस्थान इहैव वा ॥ ३ ॥ टीका-स्मरेत् स्मृतिविषयीकुर्यात् । कोऽसौ, मूलगुणस्थापनोद्यतः सूरिः । कानू, मूलगुणान् । केषां गृहिणां । किंविशिष्टान् एतान् उपासकाध्ययनादि " १ सर्वविनाशी जीवस्त्रसहनने त्याज्यते यतो जैनैः । स्थावरहननानुमतिस्ततः कृता तैः कथं भवति ॥ २ मांसाशिषु दया नास्ति न सत्यं मद्यपायिषु । अनृशंस्यं न मत्यैषु मधूदुम्बर से विषु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy