SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १८ सागारधर्मामृते त्यादि, समा आत्मना समाना क्रिया आधानादिका उपलक्षणान्मन्त्रव्रतादयश्च यस्यासौ समक्रियः, पात्रं च समक्रिपश्च अन्वयश्च दया च पीत्रसम क्रियान्वयदयास्तदाश्रया दत्तयो दानानि तद्दत्तयस्ताः, पात्रदत्तिं समानदत्तिमन्वयदत्तिं दयादत्तिं च । तपोऽनशनादि संयमं व्रतधारणं । स्वाध्यायं श्रतभावनाम् | किमेतत्पक्षादित्रयमित्याह स्यान्मैत्र्याद्युपबृंहितोऽखिलवधत्यागो न हिंस्यामहं धर्माद्यर्थमितीह पक्ष उदितं दोषं विशोध्योज्झतः । सूनौ न्यस्य निजान्वयं गृहमथां चर्या भवेत्साधनं त्वन्तेऽनेह तनूज्झनाद्विशदया ध्यात्यात्मनः शोधनम् ।। टीका -- स्यात् भवेत् । कोऽसौ पक्षः अहिंसापरिणामत्वं । किमात्मा, अखिलवधत्यागः अखिलोऽनृतादिसहितो वधः प्राणातिपातः, सह सागारधर्मप्रक्रमात्त्रसवधविषय एव तस्य त्यागो वर्जनं । किंविशिष्टः, मैत्र्याद्युपबृंहितो मैत्रीप्रमोदकारुण्यमाध्यस्थ्यभावनाभिरुपचितः । केन, न हिंस्यामहं , १ चतुर्धा वर्णिता दत्ति - दयादानसमाऽन्वयैः ॥ सानुकम्पमनुग्राह्ये प्राणिवृन्देऽभयप्रदा । त्रिशुध्यानुगता सेयं दयादत्तिर्मता बुधैः ॥ महातपोधनायाय-प्रतिग्रहपुरःसरम् । प्रदानमशनादीनां पात्रदानं तदिष्यते ॥ समानायात्मनाऽन्यस्मै क्रियामन्त्रत्रतादिभिः । निस्तारकोत्तमायेह भूहेमाद्यतिसर्जनम् ॥ समानदत्तिरेषा स्यात् पात्रे मध्यमतामिते । समानप्रतिपत्यैव प्रवृत्ता श्रद्धयान्विता ॥ आत्मान्वयप्रतिष्ठार्थं सूनवे यदशेषतः । मं समयवित्ताभ्यां स्ववर्गस्यातिसर्जनम् ॥ सैषा सकलदत्तिः स्यात् स्वाध्यायः शुभभावना | तपोऽनशनवृत्यादि संयमो व्रतधारणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy