SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते तुर्विशेषे । विन जानीमः । के ते, वयं लौकिकशास्त्रज्ञपरितोषकारिणः। कानि, अहानि दिनानि अर्थान्नृजन्मसम्बन्धीनि । किं कुर्वन्ति, यान्ति गच्छन्ति । किंविशिष्टानि,अमोघानि सफलानि । कया, वयसेवया धर्मयशःशर्मसाधनया, न पुनरेकैकस्य द्वयोर्द्वयोर्वा निर्वर्तनयेत्येवकारार्थः । एतेनाहरहर्यथाशक्तिधर्मादित्रयं साध्यामिति विधिः प्रत्येयः ।। १४ ॥ एवं भावितसम्यक्त्वस्य संयतत्वसामग्रीविरहे कालादिलब्धिलाभादवश्यारोहणीयं सँयतासँयतत्वपदं निर्देष्टुमाह मूलोत्तरगुणनिष्ठा मधितिष्ठन्पश्चगुरुपदशरण्यः । दानयजनप्रधानो ज्ञानसुधां श्रावकः पिपासुः स्यात् ॥ १५ ॥ टीका-स्यात् भवेत् । कोऽसौ, श्रावकः शृणोति गुर्वादिभ्यो धर्ममिति श्रावकः । किं कुर्वन् , अधितिष्ठन् उपयुञानः। कां, मूलोत्तरगुणनिष्ठां मूलानि उत्तरगुणप्ररोहणनिमित्तत्वात् सँयमाथिभिः प्रागनुष्ठेयत्वाच्च उत्तरे मूलगुणान न्तरसेव्यत्वादुत्कृष्टत्वाच्च, मूलानि च उत्तरे च मूलोत्तरास्ते च ते गुणाश्च संयमविकल्पाः तेषां निष्ठा निर्वाहो दृष्टफलनिरपेक्षतया निराकुलं वहन् । किम्भूतो भूत्वेत्याह-पंचगुरुपदशरण्यः, पंचानां गुरूणामहदादीनां पदानि चरणाः शरण्यानि शरणे आर्तिहरणे स्वात्मसमर्पणे वा साधूनि योग्यानि यस्य स तथोक्तः । एवं सम्यग्दर्शनपूर्वकं देशसयममधितिष्टतो दानयजनाध्ययनलक्षणमाचारं कर्तव्यतया दानेत्यादिना निर्दिशति-कीदृशस्तथाभूतः श्रावकः स्यात्, दोनयजनप्रधानः दान-पात्रादिभिश्चतुर्धा, यजनं-नित्यमहादियज्ञ: पंचधा, दानं च यजनं च दामयजने प्रधाने मुख्य यस्यासौ । १ जो तसवहादु विरदो अविरदओ तह य थावरवहादो। एकसमयाह्म जीवो विरदाविरदो जिणेकमइ ॥ २ ध्यानेन शोभते योगी संयमेन तपोधनः । सत्येन वचसा राजा गेही दानेन शोभते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy