SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकर्तुः प्रशस्तिः । २४५ रसं जिनागमनिर्यासभूतं निबंधरुचिरं । स्वयंकृतज्ञानदीपिकाख्यपंजिकया रमणीयं धर्मामृतं धर्मामृताख्यं न्यदधात् स्थापयति स्म ॥ ११ ॥ आयुर्वेदविदामिष्टां व्यक्तं वाग्भटसंहिताम् । अष्टाङ्गहृदयोद्योतं निबन्धमसृजच्च यः ॥ १२ ॥ व्यक्तुं प्रकटीकर्तुं । वाग्भटसंहितां अष्टांगहृदयनाम्नीं ॥ १२ ॥ यो मूलाराधनेष्टोपदेशादिषु निबन्धनम् । व्यधत्तामरकोशे च क्रियाकलापमुजगौ ॥ १३ ॥ आदिः आराधनासारभूपालचतुर्विंशतिस्तवनाद्यर्थः । उज्जगो उत्कृष्टं कृतवान् ॥ १३॥ रौद्रटस्य व्यधात्काव्यालङ्कारस्य निबन्धनम् । सहस्रनामस्तवनं सनिबन्धं च योऽहेताम् ॥ १४ ॥ रौद्रटस्य रुद्रटाचार्यकृतस्य । अर्हतां अनंतजिनानां ॥ १४ ॥ सनिबन्धं यश्च जिनयज्ञकल्पमरीरचत् । त्रिषष्टिस्मृतिशास्त्रं यो निबंन्धालंकृतं व्यधात् ॥ १५ ॥ सनिबन्धं स्वयंकृतेन जिनयज्ञकल्पदीपकारटोननिबन्धेन सहितं जिनयज्ञकल्पं जिनयज्ञकल्पाख्यं जिनप्रतिष्ठाशास्त्रं अरीरचत् निर्मितवान् । त्रिषष्टिस्मृतिशास्त्रं आर्षमहापुराणशास्त्रोद्धृतत्रिषष्टिशलाकापुरुषवृत्तगोचरं त्रिषष्टिस्मृतिसंशं संक्षिप्तशास्त्रं । निबन्धालङ्कृतं स्वयंकृतनिबन्धेन भूषितं ॥ १५ ॥ अहन्महाभिषेकाचर्चाविधिं मोहतमोरविम् । चक्रे नित्यमहोद्योतं स्नानशास्त्रं जिनेशिनाम् ॥ १६ ॥ नित्यमहोद्योतं नित्यमहोद्योताख्यं ॥ १६ ॥ रत्नत्रयविधानस्य पूजामाहात्म्यवर्णनम् । रत्नत्रयविधानाख्यं शास्त्रं वितनुते स्म यः ॥ १७ ॥ सोऽहमाशाधरो रम्यामेतां टीकां व्यरीरचम् । धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥ १८ ॥ धर्मामृतोक्ताः स्वकृतधर्मामृताख्यशास्त्रे निगदिताः ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy