SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः। २२९ गखण्डप्रभृतयोऽपशकुनाः समवसरणगमनान्तराया यस्य स तथोक्तः । कथम्भूतो भूत्वा, गतः प्राप्तः । कां, तत्संसदं वासुपूज्यसमवसरणं । किं कृत्वा, उक्त्वा उच्चार्य ॥ ७५॥ एकोऽप्यहन्नमस्कारश्चेद्विशेन्मरणे मनः । सम्पाद्याभ्युदयं मुक्तिश्रियमुत्कयति द्रुतम् ॥ ७६॥ टीका--चेद्यदि । विशेत् भावरूपतया व्याप्नुयात् । कोऽसावेकोऽपि केवलोऽपि अर्हतो भगवतो नमस्कारः प्रणामः । किंतन्मनश्चित्तं । क, मरणे प्राणत्यागलक्षणे । तदा द्रुतं शीघ्रमुत्कयत्युत्कंठयति । कां, मुक्तिश्रियं मोक्षलक्ष्मी । अनन्तरभवेषु द्वित्रिभवेषु वा परमपदं सम्पादयतीत्यर्थः। किं कृत्वा, सम्पाद्य सम्पूर्ण प्रापय्य । कमभ्युदयं महर्द्धिम् ॥ ७६ ॥ स णमो अरहंताणमित्युच्चारणतत्परः । गोपः सुदर्शनीभूय सुभगाह्वः शिवं गतः ॥ ७७ ॥ टीका--गतः । कोऽसौ, आगमे प्रसिद्धः सुभगाह्वः सुभगो नाम गोपो गोपालः । किं तच्छिवं परममुक्तिं । किं कृत्वा, सुदर्शनीभूय वृषभदासश्रेष्टिपुत्रः सुदर्शनाख्यः सुरूपः सुसम्यक्त्वश्च भूत्वा । किंविशिष्टः सन्, णमो अरहताणमित्येतस्याहन्नमस्कारस्योच्चारणे संशब्दे तत्परस्तनिष्ठस्तदेकाग्रमना इत्यर्थः ॥ ७७ ॥ ज्ञानोपयोगमाहात्म्यं त्रिभि श्लोकैराह स्वाध्यायादि यथाशक्ति भक्तिपीतमनाश्वरन् । तत्कालिकाद्भुतफलादुदर्के तर्कमस्यति ॥ ७८ ॥ टीका-अस्यति क्षिपति निवारयतीत्यर्थः । कोऽसौ, पुरुषः । कं, तर्क विकल्पं संशयरूपं विमर्शमित्यर्थः । कस्मिन्विषये, उदर्के उत्तरफले स्वाध्यायाद्यनुष्ठानसाध्यमागमे यदद्भुतं फलमुक्तं तन्मे भविष्यति न वेति सन्देहं । कस्मात्तत्तत्कालिकाद्भुतफलात् क्रियमाणस्वाध्यायाद्याचरणसमयभवासम्भाब्येष्टसाध्यात् दृष्टेनादृष्टस्यासम्भाव्यस्यापि निश्चेतुं शक्यत्वात् । किं कुर्वन्, चरन् अनुतिष्ठन् । किं तत्स्वाध्यायादि स्वाध्यायं वन्दनां प्रतिक्रमणादिकमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy