SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Awar षष्ठोध्यायः। १६१ क्षालितांघ्रिस्तथैवान्तःप्रविश्यानन्दनिर्भरः।। त्रिः प्रदक्षिणयेनत्वा जिनं पुण्याः स्तुतीः पठन् ॥ ९॥ टीका-प्रदक्षिणयेत् प्रदक्षिणीकुर्यादसौ । कं, जिनं स्थापनार्हन्तं । कथं, त्रिस्त्रीन् वारान् । किं कुर्वन् , पठन् निगदन् । काः, स्तुतीः स्तवनवाक्यानि । किंविशिष्टाः, पुण्याः ज्ञानसंवेगादिगुणप्रव्यक्तीकरणेन अशुभकर्मनिर्जरणीः पुण्यास्रवणीश्च । किं कृत्वा, नत्वा त्रिःप्रणम्य जिनं । किंविशिष्टः सन्, आनन्दनिर्भरः प्रमोदपूरितसर्वांगः । किं कृत्वा, प्रविश्य आक्रम्य । किं तत्, अन्तः चैत्यालयमध्यदेशं । कथं, तथैव निसहीगिरैव । कथम्भूतो भूत्वा, क्षालिताद्भिः धौतपादः ॥ ९ ॥ सेयमास्थायिका सोऽयं जिनस्तेऽमी सभासदः। चिन्तयनिति तत्रोचैरनुमोदेत धार्मिकान् ॥ १० ॥ टीका-अनुमोदेत साधु इमे अनुतिष्ठन्तीति मनसाऽभिनन्देदसौ । कान्, धार्मिकान् धर्मं चरतोऽनगारसागारभव्यजनान् । कथमुच्चैरतिशयेन मुहुर्मुहुरित्यर्थः । क्व, तत्र चैत्यालये । प्रदक्षिणीकरणे वा। किं कुर्वन्, चिन्तयन परामशन् । कथमिति । किमिति इयं चैत्यालयभूमिः । सा आगमप्रसिद्धा । आस्थायिका समवसरणभूमिः । तथा अयं प्रतिमार्पितो जिनः स आगमप्र. सिद्धोऽष्टमहाप्रातिहार्यादिविभूतिभूषितोऽर्हन् ।अमी आराधकभव्यास्ते आगम. प्रसिद्धाः सभासदः सभ्या यत्यादयो द्वादश साक्षादर्हद्देवसेवावहिताः॥ १०॥ अधैर्यापथसंशुद्धिं कृत्वाऽभ्यर्च्य जिनेश्वरम् । श्रुतं मूरिं च तस्याग्रे प्रत्याख्यानं प्रकाशयेत् ॥ ११ ॥ टीका-प्रकाशयेत् प्रतिपादयेदेष महाश्रावकः। किं तत् , प्रत्याख्यानं प्राग्गृहे गृहीतं । क्व, अग्रे । कस्य, तस्य सूरेः । किं कृत्वा, अभ्यर्च्य अभिमुखं पूजयित्वा । कं, जिनेश्वरं श्रुतं सूरिं च । किं कृत्वा, कृत्वा विधाय । कां, ईर्यापथसंशुद्धिं । कथं, अथ प्रणामपूर्वकपुण्यस्तुतिपाठविशेषप्रदक्षिणीकरणा. नंतरमिति समन्वयः । अयमत्र विशेषः । ईर्या ईरणं गमनं पन्था मार्गों यस्य तदर्यापथं संयमविराधनं तस्य संशुद्धिः सम्यक् शोधनं प्रतिक्रमण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy