SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पञ्चमोध्यायः । १३९ ___ अनोजीविका शकटजीविका शकटरथतञ्चक्रादीनां स्वयं परेण वा निष्पा दनेन वाहनेन विक्रयणेन वृत्तिबहुभूतग्रामोपमर्दिका गवादीनां च बन्धादिहेतुः ॥ ३ ॥ स्फोटजीविका उडादिकर्मणा पृथिवीकायिकाद्युपमर्दहेतुना जीवनं ॥ ४ ॥ भाटकजीविका शकटादिभारवाहनमूल्येन जीवनं ॥ ५ ॥ यन्त्रपीडाकर्म तिलयन्त्रादिपीडनं तिलादिकं च दत्वा तैलादिप्रतिग्रहणम् । तत्कर्मणश्च पीलनाय तिलादिक्षोदात्तद्गतत्रसघाताच दुष्टत्वं ॥ ६ ॥ निर्लाञ्च्छनं • निर्लाञ्च्छनकर्म वृषभादेन सावेधादिना जीविका । निर्लाच्छनं नितरां लाञ्च्छनमगावयवच्छेदः ॥ ७ ॥ असतीपोषः प्राणिघ्नप्राणिपोषो भाटिग्रहणार्थ दासपोषश्च ॥ ८ ॥ सरःशोषो धान्यवपनाद्यर्थ जलाशयेभ्यो जलस्य सारण्या कर्षणं । तत्रच जलस्य तद्गतानां त्रसानां तत्पालितानां च षण्णां जीवनिकायानां घात इति दूष्यत्वम् ॥ ९॥ वधदानं दावाग्नेस्तृणादिदहनार्थ वितरणं ।. तञ्च फलनिरपेक्षतात्पर्याद्वनेचरैर्वह्निज्वालनं व्यसनजमुच्यते । पुण्यबुद्धिजं तु यथा मदीये मरणकाले इयन्तो मम श्रेयोऽर्थ दीपोत्सवाः करणीया इति पुण्यबुध्या क्रियमाणं । तृणदाहे सति नवतृणांकुरोफ़ेदानावश्चरन्तीति वा क्षेत्र वा सस्यसम्पत्तिवृद्धयेऽ ग्निज्वालनं अत्र जीवकोटिनां वधो व्यक्त एव ॥ १० ॥ विषवाणिज्यं जीवघ्नवस्तुनिक्रयः ॥ ११ ॥ लाक्षावाणिज्यं लाक्षाविक्रयणं । लाक्षायाः सूक्ष्मत्रसजन्तुघातानन्तकायिकप्रवालजालोपमर्दाविनाभाविना स्वयोनिवृक्षादुद्धरणेन टङ्गणमनःशिलासकूमालिप्रभृतीनां बाह्यजीवघातहेतुत्वेन गुग्गुलिकाया धातकीपुष्पत्वचश्च मद्यहेतुत्वेन तद्विक्रयस्य पापाश्रयत्वात् ॥ १२ ॥ ___ दन्तवाणिज्यं हस्त्यादिदन्ताद्यवयवानां पुलिन्दादिषु द्रव्यदानेन तदुत्पत्तिस्थाने वाणिज्यार्थं ग्रहणं । ते हि तथा ग्रहणे तत्प्रतिक्रयार्थ हस्त्यादिवंधं कुर्वन्ति । अनाकारे तु दन्तादिक्रयविक्रये न दोषः ॥ १३ ॥ ___ केशवाणिज्यं द्विपदादिविक्रयः । तत्र च दोषः तेषां पारवश्यवधबन्धादयः क्षुत्पिपासापीडा चेति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy