SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः । १२५. एते च क्षेत्रवास्तुहिरण्यरूप्यधनधान्यदासीदासकुप्यप्रमाणातिक्रमा इति तत्त्वार्थमतेन पञ्चातिचाराः प्रपञ्चिताः । स्वामिमतेन त्विमे - अतिवाहनातिसंग्रहविस्मयलोभातिभारवहनानि । परिमितपरिग्रहस्य च विक्षपाः पञ्च लक्ष्यन्ते || १ || अत्रातिवाहनं लोभावेशवशात् वृषभादीनां शक्त्यतिक्रमेण हान्मार्गे नयनं । अतिसंग्रहः इदं धान्यादिकमये विशिष्टं लाभं दास्यतीति लोभावेशादतिशयेन संग्रहणं । अतिविस्मयो धान्यादौ प्रपन्नलाभेन विक्रीते मूलतोऽप्यसंगृहीते वा तत्क्रयाणकेनाधिकेऽर्धे लब्धे लोभावेशादतिविषाद | अतिलोभो विशिष्टेऽर्धे लब्धेऽपि अधिकलाभाकांक्षा । अतिभारवहनं लोभावेशादधिकभारारोपणं ॥ सोमदेवपण्डितस्त्विदमाह - कृतप्रमाणो लोभेन धनाद्यधिकसंग्रहः || पञ्चमाणुव्रतज्यानीं करोति गृहमेधिनाम् ॥ १ ॥ तच्चैतच्च परेऽप्यूयास्तदत्यया इत्यनेन संगृहीतम् ॥ ६४ ॥ : एवं निर्मलीकृतपरिग्रहव्रतपालकस्य फलं दृष्टान्तेन स्फुटयन्नाह - यः परिग्रहसंख्यानव्रतं पालयतेऽमलम् | जयवज्जितलोभोऽसौ पूजातिशयमश्नुते ।। ६५ । टीका- यः पालयते रक्षयति । किं तत्, परिग्रहसंख्यानव्रतं । कथं कृत्वा, अमलं यथोक्तातिचाररहितं । असौ श्रावकः पूजातिशयं शक्रादिकृतामर्चनामनुते लभते । किंविशिष्टः, यतो जितलोभः जितलोभत्वादित्यर्थः । किंवत्, जयवत् मेघस्वराख्यकुरुराजो यथा ॥ ६५ ॥ इत्थं निरतिचाराणुव्रत परिणत्यनुपालनाय निर्मलशीलसप्तकपालनायामुपासकमुत्थापयितुं तदनुभावमाह - पञ्चाप्येवमणुव्रतानि समतापीयूषपानोन्मुखे सामन्येतरभावनाभिरमलीकृत्यार्पितान्यात्मनि । त्रातुं निर्मलशीलसप्तकमिदं ये पालयन्त्यादरात् ते सन्यासविधिप्रमुक्ततनवः सौवीः श्रियो भुंजते || ६६ || टीका - भुञ्जते अनुभवन्ति । के, ते निर्मलाणुव्रतशीलपालिनो भव्याः । काः, श्रियः सम्पदः । किंविशिष्टाः, सौर्वीः स्वर्भवाः यथास्वं सौधर्माद्यच्यु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy