SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८८ सागारधर्मामृते भ्रमसंस्कारारोप्यमाणतत्परिणामानुसरणनिवारणार्थं भूयो यत्नः क्रियते । उपदेशे च पौनरुक्त्यं न दोषः ॥ १ ॥ शल्यत्रयोद्धरणे हेतुमाह सागारो वाऽनगारो वा यनिःशल्यो व्रतीष्यते । तच्छल्यवत्कुदृङ्मायानिदानान्युद्धरेद्धृदः ॥२॥ टीका-यद्यस्मात्कारणात् । इष्यते । कोऽसौ, व्रती । किंविशिष्टो,निःशल्यः किंविशिष्टः सन् , सागारो वा अनगारो वा । अत्रेयं भावना-शल्यापगमे सत्येव व्रतसम्बन्धाद्रती मन्यते, न हिंसाधुपरतिमानवतसम्बन्धात् यथा बहुक्षीरघृतो गोमानिति व्यपदिश्यते । बहुक्षीरघृताभावात् सतीष्वपि गोषु न गामान्, तथा सशल्यत्वात् सत्स्वपि व्रतेषु न व्रती । यस्तु निःशल्यः स व्रतीति । तत्तस्मात् । उद्धरेत् निष्कासयेत् । कोऽसौ, व्रतार्थी । कानि, कुदृड्मा' यानिदानानि । कस्मात्, हृदो हृदयात् । किंवत्, शल्यवत् शल्यानि यथा॥२॥ शल्यसहचारीणि व्रतानि धिक्कुर्वन्नाह आभान्त्यसत्यदृमायानिदानः साहचर्यतः । यान्यत्रतानि व्रतवदुःखोदकाणि तानि धिक् ॥ ३ ॥ टीका-धिक् निन्द्यानि । कानि, तानि अव्रतानि व्रताभासानि । किंविशिष्टानि, दुःखोदाणि यतः दुःखमुदर्क उत्तरफलं येषां तानि । यानि किं, यानि आभान्ति आभासन्ते । कानि, अव्रतानि । किंवत्, व्रतवत् ब्रतानि यथा । कस्मात्, साहचर्यतः सहचारित्वात् । कैः, असत्यदृशा मिथ्यात्वेन मायया निदानेन च ॥ ३ ॥ उत्तरगुणनिर्णयार्थमाह-- पञ्चधाऽणुव्रतं त्रेधा गुणवतमगारिणाम् । शिक्षाव्रतं चतुर्धेति गुणाः स्युादशोत्तरे ।। ४ ॥ टीका--स्युः भवेयुः । के, गुणाः संयमविकल्पाः। केषाम् अगारिणां गृहिणां । किंविशिष्टाः, उत्तरे मूलगुणानन्तरसेव्यत्वादुत्कृष्टत्वाच्च । कति, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy